Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा
देवता - विश्वे देवाः
छन्दः - गायत्री
सूक्तम् - असुरक्षयण सूक्त
येन॑ देवा॒ असु॑राणा॒मोजां॒स्यवृ॑णीध्वम्। तेना॑ नः॒ शर्म॑ यच्छत ॥
स्वर सहित पद पाठयेन॑ । दे॒वा॒: । असु॑राणाम् । ओजां॑सि । अवृ॑णीध्वम् । तेन॑ । न॒: । शर्म॑ । य॒च्छ॒त॒ ॥७.३॥
स्वर रहित मन्त्र
येन देवा असुराणामोजांस्यवृणीध्वम्। तेना नः शर्म यच्छत ॥
स्वर रहित पद पाठयेन । देवा: । असुराणाम् । ओजांसि । अवृणीध्वम् । तेन । न: । शर्म । यच्छत ॥७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 7; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(येन) वेदमार्गेण (देवाः) विजिगीषवः शूराः (असुराणाम्) सुरविरोधिनां शत्रूणाम् (ओजांसि) बलानि (अवृणीध्वम्) वृञ् संवरणे−लङ्। यूयं निवारितवन्तः स्थ (तेन) पथा (नः) अस्मभ्यम् (शर्म) सुखम् (यच्छत्) पाघ्राध्मा०। पा० ३।७८। इति दाण् दाने, यच्छादेशः। दत्त ॥
इस भाष्य को एडिट करें