Loading...
अथर्ववेद > काण्ड 6 > सूक्त 70

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 70/ मन्त्र 1
    सूक्त - काङ्कायन देवता - अघ्न्या छन्दः - जगती सूक्तम् - अघ्न्या सूक्त

    यथा॑ मां॒सं यथा॒ सुरा॒ यथा॒क्षा अ॑धि॒देव॑ने। यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑। ए॒वा ते॑ अघ्न्ये॒ मनोऽधि॑ व॒त्से नि ह॑न्यताम् ॥

    स्वर सहित पद पाठ

    यथा॑ । मां॒सम् । यथा॑ । सुरा॑ । यथा॑ । अ॒क्षा: । अ॒धि॒ऽदेव॑ने । यथा॑ । पुं॒स: । वृ॒ष॒ण्य॒त: । स्त्रि॒याम् । नि॒ऽह॒न्यते॑ । मन॑: । ए॒व । ते॒ । अ॒घ्न्ये॒ । मन॑: । अधि॑ । व॒त्से । नि । ह॒न्य॒ता॒म् ॥७०.१॥


    स्वर रहित मन्त्र

    यथा मांसं यथा सुरा यथाक्षा अधिदेवने। यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः। एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥

    स्वर रहित पद पाठ

    यथा । मांसम् । यथा । सुरा । यथा । अक्षा: । अधिऽदेवने । यथा । पुंस: । वृषण्यत: । स्त्रियाम् । निऽहन्यते । मन: । एव । ते । अघ्न्ये । मन: । अधि । वत्से । नि । हन्यताम् ॥७०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 70; मन्त्र » 1

    टिप्पणीः - १−(यथा) येन प्रकारेण (मांसम्) अ० ४।१७।४। मन ज्ञाने−स प्रत्ययः, दीर्घश्च। मांसं माननं वा मानसं वा मनोऽस्मिन्त्सीदतीति वा निरु० ४।३। ज्ञानम् (यथा) (सुरा) सू० ७०। म० १। ऐश्वर्यम् (यथा) (अक्षाः) अक्षू व्याप्तिसंघातयोः−अच्। यद्वा। अशेर्देवने। उ० ३।६५। इति अशू व्याप्तौ−स प्रत्ययः। व्यवहाराः (अधिदेवने) दिवु व्यवहारे−ल्युट्। अधिकव्यवहारस्थाने राजद्वारे। (पुंसः) अ० १।८।१। पा रक्षणे−डुमसुन्। रक्षणशीलस्य पुरुषस्य (वृषण्यतः) दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति। पा० ७।४।३६। इति वृषन्−क्यचि निपातितः। वृषाणम् इन्द्रम् ऐश्वर्यवन्तमात्मानमिच्छतः (स्त्रियाम्) अ० १।८।१। ष्टुञ् स्तुतौ−ड्रट्, ङीप्। स्तुतिक्रियायाम्। स्तुत्यायां पत्न्यां वा (निहन्यते) स्थाप्यते (मनः) चित्तम् (एव) एवम्। तथा (ते) तव (अघ्न्ये) अ० ३।३०।१। अघ्न्याऽहन्तव्या भवत्यघघ्नीति वा−निरु० ११।४३। हे अहन्तव्ये प्रजे (मनः) (अधि) (अधिकम्) (वत्से) अ० ३।१२।३। वृतॄवदिवचिवसि०। उ० ३।६२। इति वस निवासे−स। सर्वनिवासशीले परमेश्वरे (निहन्यताम्) दृढीक्रियताम् ॥

    इस भाष्य को एडिट करें
    Top