Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 70/ मन्त्र 3
यथा॑ प्र॒धिर्यथो॑प॒धिर्यथा॒ नभ्यं॑ प्र॒धावधि॑। यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑। ए॒वा ते॑ अघ्न्ये॒ मनोऽधि॑ व॒त्से नि ह॑न्यताम् ॥
स्वर सहित पद पाठयथा॑ । प्र॒ऽधि: । यथा॑ । उ॒प॒ऽधि: । यथा॑ । नभ्य॑म् । प्र॒ऽधौ । अधि॑ । यथा॑ । पुं॒स: । वृ॒ष॒ण्य॒त:। स्त्रि॒याम् । नि॒ऽह॒न्यते॑। मन॑: । ए॒व । ते॒ । अ॒घ्न्ये॒ । मन॑: । अधि॑। व॒त्से । नि । ह॒न्य॒ता॒म् ॥७०.३॥
स्वर रहित मन्त्र
यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि। यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः। एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥
स्वर रहित पद पाठयथा । प्रऽधि: । यथा । उपऽधि: । यथा । नभ्यम् । प्रऽधौ । अधि । यथा । पुंस: । वृषण्यत:। स्त्रियाम् । निऽहन्यते। मन: । एव । ते । अघ्न्ये । मन: । अधि। वत्से । नि । हन्यताम् ॥७०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 70; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(प्रधिः) उपसर्गे घोः किः। पा० ३।२।९२। इति धाञः−कि। रथचक्रस्य नेमिः (उपधिः) अराणां सन्धिः (नभ्यम्) उगवादिभ्यो यत्। पा० ५।१।२। इति नाभि−यत्। नाभये हितं रथाङ्गम्−अन्यत्पूर्ववत् ॥
इस भाष्य को एडिट करें