Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 71/ मन्त्र 2
यन्मा॑ हु॒तमहु॑तमाज॒गाम॑ द॒त्तं पि॒तृभि॒रनु॑मतं मनु॒ष्यैः। यस्मा॑न्मे॒ मन॒ उदि॑व॒ रार॑जीत्य॒ग्निष्टद्धोता॒ सुहु॑तं कृणोतु ॥
स्वर सहित पद पाठयत् । मा॒ । हु॒तम् । अहु॑तम् । आ॒ऽज॒गाम॑। द॒त्तम् । पि॒तृऽभि॑: । अनु॑ऽमतम् । म॒नु॒ष्यै᳡: । यस्मा॑त् । मे॒ । मन॑: । उत्ऽइ॑व । रार॑जीति । अ॒ग्नि: । तत् । होता॑ । सुऽहु॑तम् ।कृ॒णो॒तु॒ ॥७१.२॥
स्वर रहित मन्त्र
यन्मा हुतमहुतमाजगाम दत्तं पितृभिरनुमतं मनुष्यैः। यस्मान्मे मन उदिव रारजीत्यग्निष्टद्धोता सुहुतं कृणोतु ॥
स्वर रहित पद पाठयत् । मा । हुतम् । अहुतम् । आऽजगाम। दत्तम् । पितृऽभि: । अनुऽमतम् । मनुष्यै: । यस्मात् । मे । मन: । उत्ऽइव । रारजीति । अग्नि: । तत् । होता । सुऽहुतम् ।कृणोतु ॥७१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 71; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यत्) द्रव्यम् (मा) माम् (हुतम्) दत्तं मातापित्रादिभिः (अहुतम्) अदत्तं स्वपौरुषेण प्राप्तम् (आजगाम) प्राप (दत्तम्) वितीर्णम् (पितृभिः) पालनशीलैर्महात्मभिः (अनुमतम्) अङ्गीकृतम् (मनुष्यैः) अ० ३।४।९। मननशीलैः पुरुषैः (यस्मात्) कारणात् (मे) मम (मनः) चित्तम् (उत् इव) उन्नतं यथा (रारजीति) राजृ दीप्तौ ऐश्वर्ये च, यङ्लुकि छान्दसमुपधाह्रस्वत्वम्। रारजीति। भृशं दीप्यते शोभते। अन्यद्गतम् ॥
इस भाष्य को एडिट करें