Loading...
अथर्ववेद > काण्ड 6 > सूक्त 71

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 71/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - विश्वे देवाः छन्दः - त्रिष्टुप् सूक्तम् - अन्न सूक्त

    यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त सं॑गृ॒णामि॑। वै॑श्वान॒रस्य॑ मह॒तो म॑हि॒म्ना शि॒वं मह्यं॒ मधु॑मद॒स्त्वन्न॑म् ॥

    स्वर सहित पद पाठ

    यत् । अन्न॑म् । अद्मि॑ । अनृ॑तेन । दे॒वा॒: । दा॒स्यन् । अदा॑स्यन् । उ॒त । स॒म्ऽगृ॒णामि॑ । वै॒श्वा॒न॒रस्य॑ । म॒ह॒त: । म॒हि॒म्ना । शि॒वम् । मह्य॑म् । मधु॑ऽमत् । अ॒स्तु॒ । अन्न॑म् ॥७१.३॥


    स्वर रहित मन्त्र

    यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत संगृणामि। वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम् ॥

    स्वर रहित पद पाठ

    यत् । अन्नम् । अद्मि । अनृतेन । देवा: । दास्यन् । अदास्यन् । उत । सम्ऽगृणामि । वैश्वानरस्य । महत: । महिम्ना । शिवम् । मह्यम् । मधुऽमत् । अस्तु । अन्नम् ॥७१.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 71; मन्त्र » 3

    टिप्पणीः - ३−(यत्) (अन्नम्) (अद्मि) भक्षयामि (अनृतेन) असत्यव्यवहारेण (देवाः) हे विद्वांसः (दास्यन्) लृटः सद्वा। पा० ३।३।१४। इति दास्यतेः−शतृ। दातुमिच्छन् (अदास्यन्) अदातुमिच्छन् (उत) अपि च (संगृणामि) गॄ निगरणे, छान्दसः श्ना। संगिरामि। भक्षयामि (वैश्वानरस्य) सर्वनरहितस्य परमेश्वरस्य (महतः) पूजनीयस्य (महिम्ना) प्रतापेन (शिवम्) सुखकरम् (मह्यम्) मदर्थम् (मधुमत्) माधुर्य्योपेतम् (अस्तु) भवतु (अन्नम्) भोजनम् ॥

    इस भाष्य को एडिट करें
    Top