Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 1
सूक्त - अथर्वाङ्गिरा
देवता - शेपोऽर्कः
छन्दः - जगती
सूक्तम् - वाजीकरण सूक्त
यथा॑सि॒तः प्र॒थय॑ते॒ वशाँ॒ अनु॒ वपूं॑षि कृ॒ण्वन्नसु॑रस्य मा॒यया॑। ए॒वा ते॒ शेपः॒ सह॑सा॒यम॒र्कोऽङ्गे॒नाङ्गं॒ संस॑मकं कृणोतु ॥
स्वर सहित पद पाठयथा॑ । अ॒सि॒त: । प्र॒थय॑ते। वशा॑न् । अनु॑ । वपूं॑षि । कृ॒ण्वन् । असु॑रस्य । मा॒यया॑ । ए॒व । ते॒ । शेप॑: । सह॑सा ।अ॒यम् । अ॒र्क:। अङ्गे॑न । अङ्ग॑म् । सम्ऽस॑मकम् । कृ॒णो॒तु॒॥७२.१॥
स्वर रहित मन्त्र
यथासितः प्रथयते वशाँ अनु वपूंषि कृण्वन्नसुरस्य मायया। एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥
स्वर रहित पद पाठयथा । असित: । प्रथयते। वशान् । अनु । वपूंषि । कृण्वन् । असुरस्य । मायया । एव । ते । शेप: । सहसा ।अयम् । अर्क:। अङ्गेन । अङ्गम् । सम्ऽसमकम् । कृणोतु॥७२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यथा) येन प्रकारेण (असितः) अबद्धः। मुक्तस्वभावः परमेश्वरः (प्रथयते) विस्तारं करोति (वशान्) वशवर्त्तिनो जीवान् (अनु) अनुलक्ष्य (वपूंषि) शरीराणि (कृण्वन्) रचयन् (असुरस्य) अ० १।१०।१। असुरिति प्रज्ञानाम−निरु० १०।३४। रो मत्वर्थीयः। प्रज्ञावतः पुरुषस्य (मायया) अ० २।२९।६। प्रज्ञया−निघ० २।९। (एव) एवम् (ते) तव (शेपः) अ० ४।३७।७। शीङ् शयने−प। शेते, शरीरे वर्तते। सामर्थ्यम् (सहसा) षह मर्षणे−असुन्। सहनशक्त्या (अयम्) प्रसिद्धः (अर्कः) अ० ३।३।२। अर्च पूजायाम्−क। अर्को मन्त्रो भवति यदनेनार्चन्ति−निरु० ५।४। विचारः। वेदविवेकः (अङ्गेन) शरीरावयवेन (अङ्गम्) शरीरावयवम् (संसमकम्) अञ्चु गतौ याचने च−अच्। न्यङ्क्वादीनां च। पा० ७।३।५३। इति कुत्वम्। सम्यक् संगतम् (कृणोतु) करोतु ॥
इस भाष्य को एडिट करें