Loading...
अथर्ववेद > काण्ड 6 > सूक्त 72

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 2
    सूक्त - अथर्वाङ्गिरा देवता - शेपोऽर्कः छन्दः - अनुष्टुप् सूक्तम् - वाजीकरण सूक्त

    यथा॒ पस॑स्तायाद॒रं वाते॑न स्थूल॒भं कृ॒तम्। याव॑त्पर॒स्वतः॒ पस॒स्ताव॑त्ते वर्धतां॒ पसः॑ ॥

    स्वर सहित पद पाठ

    यथा॑ ।पस॑: । ता॒या॒द॒रम् । वाते॑न । स्थू॒ल॒भम् । कृ॒तम् । याव॑त् । पर॑स्वत: । पस॑: । ताव॑त् । ते॒ । व॒र्ध॒ता॒म् । पस॑: ॥७२.२॥


    स्वर रहित मन्त्र

    यथा पसस्तायादरं वातेन स्थूलभं कृतम्। यावत्परस्वतः पसस्तावत्ते वर्धतां पसः ॥

    स्वर रहित पद पाठ

    यथा ।पस: । तायादरम् । वातेन । स्थूलभम् । कृतम् । यावत् । परस्वत: । पस: । तावत् । ते । वर्धताम् । पस: ॥७२.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 2

    टिप्पणीः - २−(यथा) (पसः) अ० ४।४।६। पस बन्धे बाधे च−असुन्। राज्यम् (तायादरम्) ताय−आदरम्। तायृ सन्तानपालनयोः−घञ्, सन्तानः प्रबन्धः। तायेन प्रबन्धेनादरः सत्कारो यस्य तद्राज्यम् (वातेन) वा गतिगन्धनयोः−तन्। उद्योगेन (स्थूलभम्) स्थः किच्च। उ० ५।४। इति ष्ठा−ऊरन्, रस्य लः। भा दीप्तौ−ड। स्थूरेषु मनुष्येषु भातीति तत् (कृतम्) अनुष्ठितम् (यावत्) यत्प्रमाणम्। बहुविस्तीर्णमित्यर्थः (परस्वतः) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति पॄ पालनपूरणयोः−असुन्। पालनवतः पुरुषस्य (पसः) राज्यप्रबन्धः (तावत्) तत्परिमाणविशिष्टम् (ते) तव (वर्धताम्) प्रवृद्धं भवतु (पसः) राज्यम् ॥

    इस भाष्य को एडिट करें
    Top