Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 78/ मन्त्र 3
सूक्त - अथर्वा
देवता - त्वष्टा
छन्दः - अनुष्टुप्
सूक्तम् - धनप्राप्ति प्रार्थना सूक्त
त्वष्टा॑ जा॒याम॑जनय॒त्त्वष्टा॑स्यै॒ त्वां पति॑म्। त्वष्टा॑ स॒हस्र॒मायुं॑षि दी॒र्घमायुः॑ कृणोतु वाम् ॥
स्वर सहित पद पाठत्वष्टा॑ । जा॒याम् । अ॒ज॒न॒य॒त् । त्वष्टा॑ । अ॒स्यै॒ । त्वाम् । पति॑म् । त्वष्टा॑ । स॒हस्र॑म् । आयूं॑षि । दी॒र्घम् । आयु॑: । कृ॒णो॒तु॒ । वा॒म् ॥७८.३॥
स्वर रहित मन्त्र
त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम्। त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम् ॥
स्वर रहित पद पाठत्वष्टा । जायाम् । अजनयत् । त्वष्टा । अस्यै । त्वाम् । पतिम् । त्वष्टा । सहस्रम् । आयूंषि । दीर्घम् । आयु: । कृणोतु । वाम् ॥७८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 78; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(त्वष्टा) अ० २।५।६। विश्वकर्मा परमेश्वरः। तुभ्यमिति शेषः (जायाम्) म० १। वीरजननीं वधूम् (अजनयत्) उदपादयत् (त्वष्टा) (अस्यै) वधूहिताय (त्वाम्) विद्वांसम् (पतिम्) भर्तारम् (त्वष्टा) (सहस्रम्) सहो बलनाम−निघ० २।९। सहः+रा दाने−क, बहुवचनस्यैकवचनम्। सहस्राणि। बलप्रदानि (आयूंषि) प्राप्याणि जीवनसाधनानि (दीर्घम्) चिरम्। कीर्तियुक्तम् (आयुः) जीवनम् (कृणोतु) करोतु (वाम्) युवाभ्यां स्त्रीपुरुषाभ्याम् ॥
इस भाष्य को एडिट करें