Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 8/ मन्त्र 2
सूक्त - जमदग्नि
देवता - सुपर्णः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - कामात्मा सूक्त
यथा॑ सुप॒र्णः प्र॒पत॑न्प॒क्षौ नि॒हन्ति॒ भूम्या॑म्। ए॒वा नि ह॑न्मि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥
स्वर सहित पद पाठयथा॑ । सु॒ऽप॒र्ण: । प्र॒ऽपत॑न् । प॒क्षौ । नि॒ऽहन्ति॑ । भूम्या॑म् । ए॒व । नि । ह॒न्मि॒ । ते॒ । मन॑: । यथा॑ । माम् । का॒मिनी॑ । अस॑: । यथा॑ । मत् । न । अप॑ऽगा: । अस॑: ॥८.२॥
स्वर रहित मन्त्र
यथा सुपर्णः प्रपतन्पक्षौ निहन्ति भूम्याम्। एवा नि हन्मि ते मनो यथा मां कामिन्यसो यथा मन्नापगा असः ॥
स्वर रहित पद पाठयथा । सुऽपर्ण: । प्रऽपतन् । पक्षौ । निऽहन्ति । भूम्याम् । एव । नि । हन्मि । ते । मन: । यथा । माम् । कामिनी । अस: । यथा । मत् । न । अपऽगा: । अस: ॥८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 8; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यथा) येन प्रकारेण (सुपर्णः) सुपर्णाः सुपतनाः−निरु० ४।३। शीघ्रगामी पक्षी (प्रपतन्) उड्डीयमानः (पक्षौ) खगानां पतत्रौ (निहन्ति) नितरां प्राप्नोति स्थापयति (भूम्याम्) पृथिव्याम् (एव) तथा (नि हन्मि) स्थापयामि (ते) तुभ्यम् (मनः) स्वहृदयम्। अन्यत् पूर्ववत्−म० १ ॥
इस भाष्य को एडिट करें