Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 80/ मन्त्र 2
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - अरिष्टक्षयण सूक्त
ये त्रयः॑ कालका॒ञ्जा दि॒वि दे॒वा इ॑व श्रि॒ताः। तान्सर्वा॑नह्व ऊ॒तये॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
स्वर सहित पद पाठये । त्रय॑: । का॒ल॒का॒ञ्जा: । दि॒वि । दे॒वा:ऽइ॑व । श्रि॒ता: । तान् । सर्वा॑न् । अ॒ह्वे॒ । ऊ॒तये॑ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥८०.२॥
स्वर रहित मन्त्र
ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः। तान्सर्वानह्व ऊतयेऽस्मा अरिष्टतातये ॥
स्वर रहित पद पाठये । त्रय: । कालकाञ्जा: । दिवि । देवा:ऽइव । श्रिता: । तान् । सर्वान् । अह्वे । ऊतये । अस्मै । अरिष्टऽतातये ॥८०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 80; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(ये) (त्रयः) त्रिसंख्याकाः (कालकाञ्जाः) कालक+अञ्जाः। कल गतौ संख्याने च ण्यन्तात्−पचाद्यच्, स्वार्थे कन्। यद्वा। ण्वुल्तृचौ। पा० ३।१।१३३। इति कल−ण्वुल्। अञ्जू व्यक्तिम्रक्षणादिषु−घञ्। काल−कस्य कालस्य सर्वगणकस्य परमेश्वरस्य अञ्जाः प्रकाशाः (दिवि) आकाशे (देवः) यो देवः सा देवता−निरु० ७।१५। तिस्र एव देवता इति नैरुक्ताः। अग्निः पृथिवीस्थानो वायुर्वेन्द्रो वाऽन्तरिक्षस्थानः सूर्यो द्युस्थानः−निरु० ७।५। (इव) यथा (श्रिताः) आश्रिताः (तान्) प्रसिद्धान् (सर्वान्) कालकाञ्जान् (अह्वे) अ० ४।२७।१। ह्वेञ् आह्वाने−लुङ्। आहूतवानस्मि (ऊतये) रक्षार्थम् (अस्मै) अस्य जीवस्य हिताय (अरिष्टतातये) अ० ३।५।५। अरिष्ट−तातिल् करोत्यर्थे। क्षेमकरणाय ॥
इस भाष्य को एडिट करें