Loading...
अथर्ववेद > काण्ड 6 > सूक्त 83

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 83/ मन्त्र 2
    सूक्त - अङ्गिरा देवता - सूर्यः, चन्द्रः छन्दः - अनुष्टुप् सूक्तम् - भैषज्य सूक्त

    एन्येका॒ श्येन्येका॑ कृ॒ष्णैका॒ रोहि॑णी॒ द्वे। सर्वा॑सा॒मग्र॑भं॒ नामावी॑रघ्नी॒रपे॑तन ॥

    स्वर सहित पद पाठ

    एनी॑ । एका॑ । श्येनी॑ । एका॑ । कृ॒ष्णा । एका॑ । रोहि॑णी॒ इति॑ ।द्वे इति॑ । सर्वा॑साम् । अ॒ग्र॒भ॒म् । नाम॑ । अवी॑रऽघ्नी: । अप॑ । इ॒त॒न॒ ॥८३.२॥


    स्वर रहित मन्त्र

    एन्येका श्येन्येका कृष्णैका रोहिणी द्वे। सर्वासामग्रभं नामावीरघ्नीरपेतन ॥

    स्वर रहित पद पाठ

    एनी । एका । श्येनी । एका । कृष्णा । एका । रोहिणी इति ।द्वे इति । सर्वासाम् । अग्रभम् । नाम । अवीरऽघ्नी: । अप । इतन ॥८३.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 83; मन्त्र » 2

    टिप्पणीः - २−(एनी) हसिमृग्रिण्०। उ० ३।८६। इति इण् गतौ−तन्। वर्णादनुदात्तात्तोपधात्तो नः। पा० ४।१।३९। इति ङीप्, तस्य च नः। चित्रवर्णा (एका) गण्डमालादिपीडा (श्येनी) हृश्याभ्यामितन्। उ० ३।९३। इति श्यैङ् गतौ−इतन्। पूर्ववद्ङीप्, तस्य च नः। श्वेतवर्णा (एका) (कृष्णा) कृष्णवर्णा (एका) (रोहिणी) रोहितशब्दस्य पूर्ववद्ङीप्नकारौ। रोहिण्यौ। लोहितवर्णे वातपित्तश्लेष्मवशाद् वर्णनानात्वाद् एतासां नानात्वम् (सर्वासाम्) अपचिताम् (अग्रभम्) अहमग्रहीषम् (नाम) प्रसिद्धौ (अवीरघ्नीः) बहुलं छन्दसि। पा० ३।२।८९। इति वीर+हन वधे−क्विप्। ऋन्नेभ्यो ङीप्। पा० ४।१।५। इति ङीप्। अल्लोपोऽनः। पा० ६।४।१३४। अकारलोपः। वा च्छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णदीर्घः। अवीरान् कातरान् सत्यः (अपेतन) तप्तनप्तनथनाश्च। पा० ७।१४५। इति एतेर्लोटि तस्य तनादेशः। अपगच्छत ॥

    इस भाष्य को एडिट करें
    Top