Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 83/ मन्त्र 4
सूक्त - अङ्गिरा
देवता - सूर्यः, चन्द्रः
छन्दः - एकावसाना द्विपदा निचृदार्ची
सूक्तम् - भैषज्य सूक्त
वी॒हि स्वामाहु॑तिं जुषा॒णो मन॑सा॒ स्वाहा॒ मन॑सा॒ यदि॒दं जु॒होमि॑ ॥
स्वर सहित पद पाठवी॒हि । स्वाम् । आऽहु॑तिम् । जु॒षा॒ण: । मन॑सा । स्वाहा॑ । मन॑सा । यत् । इ॒दम् । जु॒होमि॑ ॥८३.४॥
स्वर रहित मन्त्र
वीहि स्वामाहुतिं जुषाणो मनसा स्वाहा मनसा यदिदं जुहोमि ॥
स्वर रहित पद पाठवीहि । स्वाम् । आऽहुतिम् । जुषाण: । मनसा । स्वाहा । मनसा । यत् । इदम् । जुहोमि ॥८३.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 83; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(वीहि) प्राप्नुहि (स्वाम्) स्वकीयाम्। पौरुषेण प्राप्ताम् (आहुतिम्) हु दानादनयोः−क्तिन्। समन्ताद् दातव्यग्राह्यक्रियाम् (जुषाणः) प्रीयमाणः (मनसा) अन्तःकरणेन सुविचारेण (स्वाहा) सुवाण्या (मनसा) (यत्) यस्मात्कारणात् (इदम्) इन्देः कमिन् नलोश्च। उ० ४।१५७। इदि परमेश्वर्ये−कमिन्। ऐश्वर्यहेतु ज्ञानम् (जुहोमि) ददामि। उपदिशामि ॥
इस भाष्य को एडिट करें