Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 84/ मन्त्र 1
सूक्त - अङ्गिरा
देवता - निर्ऋतिः
छन्दः - भुरिग्जगती
सूक्तम् - निर्ऋतिमोचन सूक्त
यस्या॑स्त आ॒सनि॑ घो॒रे जु॒होम्ये॒षां ब॒द्धाना॑मव॒सर्ज॑नाय॒ कम्। भूमि॒रिति॑ त्वाभि॒प्रम॑न्वते॒ जना॒ निरृ॑ति॒रिति॑ त्वा॒हं परि॑ वेद स॒र्वतः॑ ॥
स्वर सहित पद पाठयस्या॑: । ते॒ । आ॒सनि॑ । घो॒रे । जु॒होमि॑ । ए॒षाम् । ब॒ध्दाना॑म् । अ॒व॒ऽसर्ज॑नाय । कम् । भूमि॑: । इति॑ । त्वा॒ । अ॒भि॒ऽप्रम॑न्वते । जना॑: । नि:ऽऋ॑ति: । इति॑। त्वा॒ । अ॒हम् । परि॑ । वे॒द॒। स॒र्वत॑: ॥८४.१॥
स्वर रहित मन्त्र
यस्यास्त आसनि घोरे जुहोम्येषां बद्धानामवसर्जनाय कम्। भूमिरिति त्वाभिप्रमन्वते जना निरृतिरिति त्वाहं परि वेद सर्वतः ॥
स्वर रहित पद पाठयस्या: । ते । आसनि । घोरे । जुहोमि । एषाम् । बध्दानाम् । अवऽसर्जनाय । कम् । भूमि: । इति । त्वा । अभिऽप्रमन्वते । जना: । नि:ऽऋति: । इति। त्वा । अहम् । परि । वेद। सर्वत: ॥८४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 84; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यस्याः) निर्ऋतेः (ते) तव (आसनि) आस्ये। मुखे (घोरे) घुर भीमभावे−अच्। भयानके (जुहोमि) ददामि (एषाम्) प्राणिनाम् (बद्धानाम्) बन्धगतानाम् (अवसर्जनाय) दुःखाद् विमोचनाय (कम्) अ० २।१।५। कः कमनो वा क्रमणं वा सुखो वा। निरु० १०।२२। कमनीयं व्यवहारम् (भूमिः) आश्रयभूता (इति) वाक्यसमाप्तौ (त्वा) तां त्वाम् (अभिप्रमन्वते) मनु अवबोधने। अभितः प्रबुद्धयन्ते (जनाः) पामरलोकाः (निर्ऋतिः) अ० २।१०।१। निर्ऋतिः−कृच्छापत्तिः−निरु० २।७। अलक्ष्मीः (इति) (त्वा) निर्ऋतिम् (अहम्) तत्त्वज्ञानी पुरुषः (परि) परितः (वेद) जानामि (सर्वतः) सर्वस्मात्कारणात् ॥
इस भाष्य को एडिट करें