Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 84/ मन्त्र 2
सूक्त - अङ्गिरा
देवता - निर्ऋतिः
छन्दः - त्रिपदार्षी बृहती
सूक्तम् - निर्ऋतिमोचन सूक्त
भूते॑ ह॒विष्म॑ती भवै॒ष ते॑ भा॒गो यो अ॒स्मासु॑। मु॒ञ्चेमान॒मूनेन॑सः॒ स्वाहा॑ ॥
स्वर सहित पद पाठभूते॑ । ह॒विष्म॑ती । भ॒व॒ । ए॒ष: । ते॒ । भा॒ग: । य: । अ॒स्मासु॑ । मु॒ञ्च । इ॒मान् । अ॒मून् । एन॑स: । स्वाहा॑ ॥८४.२॥
स्वर रहित मन्त्र
भूते हविष्मती भवैष ते भागो यो अस्मासु। मुञ्चेमानमूनेनसः स्वाहा ॥
स्वर रहित पद पाठभूते । हविष्मती । भव । एष: । ते । भाग: । य: । अस्मासु । मुञ्च । इमान् । अमून् । एनस: । स्वाहा ॥८४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 84; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(भूते) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति चौरादिको भू चिन्तने−क्तिच्। आमन्त्रितस्य च। पा० ६।१।१९८। इति आदिरुदात्तः। हे चिन्तनीये निर्ऋते (हविष्मती) दातव्यग्राह्यक्रियायुक्ता (भव) (एषः) वक्ष्यमाणः−मुञ्चेमानम् (ते) तव (भागः) भजनीयः स्वीकरणीयो व्यवहारः (यः) (अस्मासु) अस्माकं मध्ये भवतु (मुञ्च) विसृज (इमान्) इदानीन्तनान् जीवान् (अमून्) दूरस्थान् पूर्वपरजन्मनि वर्तमानान् (एनसः) पापात्। कष्टात् (स्वाहा) सुवाणी। सुप्रार्थना ॥
इस भाष्य को एडिट करें