Loading...
अथर्ववेद > काण्ड 6 > सूक्त 84

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 84/ मन्त्र 3
    सूक्त - अङ्गिरा देवता - निर्ऋतिः छन्दः - जगती सूक्तम् - निर्ऋतिमोचन सूक्त

    ए॒वो ष्वस्मन्नि॑रृतेऽने॒हा त्वम॑य॒स्मया॒न्वि चृ॑ता बन्धपा॒शान्। य॒मो मह्यं॒ पुन॒रित्त्वां द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥

    स्वर सहित पद पाठ

    ए॒वो इति॑ । सु । अ॒स्मत् । नि॒:ऽऋ॒ते॒ । अ॒ने॒हा । त्वम् । अ॒य॒स्मया॑न् । वि । चृ॒त॒ । ब॒न्ध॒ऽपा॒शान् । य॒म: । मह्म॑म् । पुन॑: । इत् । त्वाम् । द॒दा॒ति॒ । तस्मै॑ । य॒माय॑ । नम॑: । अ॒स्तु॒ । मृ॒त्यवे॑ ॥८४.३॥


    स्वर रहित मन्त्र

    एवो ष्वस्मन्निरृतेऽनेहा त्वमयस्मयान्वि चृता बन्धपाशान्। यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥

    स्वर रहित पद पाठ

    एवो इति । सु । अस्मत् । नि:ऽऋते । अनेहा । त्वम् । अयस्मयान् । वि । चृत । बन्धऽपाशान् । यम: । मह्मम् । पुन: । इत् । त्वाम् । ददाति । तस्मै । यमाय । नम: । अस्तु । मृत्यवे ॥८४.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 84; मन्त्र » 3

    टिप्पणीः - ३−(एवो) एव−उ। अवश्यमेव (सु) सुष्ठु। यथाविधि (अस्मत्) अस्मत्तः (निर्ऋते) म० १। हे कृच्छापत्ते (अनेहा) नञि हन एह च। उ० ४।२२४। इति हन्तेर्नञ्युपपदेऽसिः, धातोरेहादेशश्च। ऋदुशनस्पुरुदंशोऽनेहसां चा पा० ७।१।९४। इति सावनङ्। अहन्त्री। अबाधमाना (त्वम्) अन्यद् गतम्−अ० ६।६३।२ ॥

    इस भाष्य को एडिट करें
    Top