Loading...
अथर्ववेद > काण्ड 6 > सूक्त 90

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 90/ मन्त्र 1
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - अनुष्टुप् सूक्तम् - इषुनिष्कासन सूक्त

    यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च। इ॒दं ताम॒द्य त्वद्व॒यं विषू॑चीं॒ वि वृ॑हामसि ॥

    स्वर सहित पद पाठ

    याम् । ते॒ । रु॒द्र: । इषु॑म् । आस्य॑त् । अङ्गे॑भ्य: । हृद॑याय: । च॒ । इ॒दम् । ताम् । अ॒द्य । त्वत् । व॒यम् । विषू॑चीम् । वि । वृ॒हा॒म॒सि॒ ॥९०.१॥


    स्वर रहित मन्त्र

    यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च। इदं तामद्य त्वद्वयं विषूचीं वि वृहामसि ॥

    स्वर रहित पद पाठ

    याम् । ते । रुद्र: । इषुम् । आस्यत् । अङ्गेभ्य: । हृदयाय: । च । इदम् । ताम् । अद्य । त्वत् । वयम् । विषूचीम् । वि । वृहामसि ॥९०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 90; मन्त्र » 1

    टिप्पणीः - १−(याम्) (ते) तव (रुद्रः) अ० १।१९।३। पापिनां रोदयिता (इषुम्) अ० १।१३।४। शक्तिनामायुधम्। पीडाम् (आस्यत्) असु क्षेपणे−लङ्। अक्षिपत् (अङ्गेभ्यः) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इत्यप्रयुज्यमानस्य धातोः कर्मणि चतुर्थी। अङ्गानि पीडयितुम्। (हृदयाय) हृदयं दुःखयितुम् (च) (इदम्) तत्प्रतीकारार्थम् (ताम्) इषुम् (अद्य) इदानीम् (त्वत्) त्वत्तः (वयम्) सुकर्मिणः (विषूचीम्) अ० १।१९।१। विषु+अञ्चु गतिपूजनयोः−क्विन्। ङीप्। नानागतिम् (वि वृहामसि) वृहू उद्यमने। विवृहामः। उत्क्षिपामः ॥

    इस भाष्य को एडिट करें
    Top