Loading...
अथर्ववेद > काण्ड 6 > सूक्त 96

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 96/ मन्त्र 1
    सूक्त - भृग्वङ्गिरा देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - चिकित्सा सूक्त

    या ओष॑धयः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः। बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    या: । ओष॑धय: । सोम॑ऽराज्ञी: । ब॒ह्वी: । श॒तऽवि॑चक्षणा: । बृह॒स्पति॑ऽप्रसूता: । ता: । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥९६.१॥


    स्वर रहित मन्त्र

    या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः। बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    या: । ओषधय: । सोमऽराज्ञी: । बह्वी: । शतऽविचक्षणा: । बृहस्पतिऽप्रसूता: । ता: । न: । मुञ्चन्तु । अंहस: ॥९६.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 96; मन्त्र » 1

    टिप्पणीः - १−(याः) (ओषधयः) अ० १।२३।१। ओष+धेट् पाने−कि। ओषस्य तापस्य पिबन्त्यो नाशयित्र्यः (सोमराज्ञीः) सर्वैश्वर्ययुक्तः परमेश्वरश्चन्द्रः सोमो वा राजा शासको यासां ताः (बह्वीः) बह्व्यः। अनेकविधाः (शतविचक्षणाः) चक्षिङ् व्यक्तायां वाचि दर्शने च−ल्यु। बहुकथनीया दर्शनीयशुभगुणाः (बृहस्पतिप्रसूताः) विद्वद्भिः प्रेरिता विनियुक्ताः (ताः) ओषधयः (नः) अस्मान् (मुञ्चन्तु) मोचयन्तु (अंहसः) रागात् ॥

    इस भाष्य को एडिट करें
    Top