Loading...
अथर्ववेद > काण्ड 7 > सूक्त 103

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 103/ मन्त्र 1
    सूक्त - प्रजापतिः देवता - ब्रहात्मा छन्दः - त्रिष्टुप् सूक्तम् - क्षत्रिय सूक्त

    को अ॒स्या नो॑ द्रु॒होव॒द्यव॑त्या॒ उन्ने॑ष्यति क्ष॒त्रियो॒ वस्य॑ इ॒च्छन्। को य॒ज्ञका॑मः॒ क उ॒ पूर्ति॑कामः॒ को दे॒वेषु॑ वनुते दी॒र्घमायुः॑ ॥

    स्वर सहित पद पाठ

    क: । अ॒स्या: । न॒: । द्रु॒ह: । अ॒व॒द्यऽव॑त्या: । उत् । ने॒ष्य॒ति॒ । क्ष॒त्रिय॑: । वस्य॑: । इ॒च्छन् । क: । य॒ज्ञऽका॑म: । क: । ऊं॒ इति॑ । पूर्ति॑ऽकाम: । क: । दे॒वेषु॑ । व॒नु॒ते॒ । दी॒र्घम् । आयु॑: ॥१०८.१॥


    स्वर रहित मन्त्र

    को अस्या नो द्रुहोवद्यवत्या उन्नेष्यति क्षत्रियो वस्य इच्छन्। को यज्ञकामः क उ पूर्तिकामः को देवेषु वनुते दीर्घमायुः ॥

    स्वर रहित पद पाठ

    क: । अस्या: । न: । द्रुह: । अवद्यऽवत्या: । उत् । नेष्यति । क्षत्रिय: । वस्य: । इच्छन् । क: । यज्ञऽकाम: । क: । ऊं इति । पूर्तिऽकाम: । क: । देवेषु । वनुते । दीर्घम् । आयु: ॥१०८.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 103; मन्त्र » 1

    टिप्पणीः - १−(कः) अन्येष्वपि दृश्यते। पा० ३।२।१०१। कच दीप्तौ वा कमु कान्तौ वा क्रमु पादविक्षेपे गतौ च-ड प्रत्ययः। कः कमनो वा क्रमणो वा सुखो वा-निरु० १०।२२। कमिति सुखनाम-निघ० ३।६। दीप्यमानः। सुखकारकः। प्रजापतिर्मनुष्यः (अस्याः) वर्तमानायाः (नः) अस्मान् (द्रुहः) द्रुह जिघांसायाम्-क्विप्। द्रोहक्रियायाः। दुर्गतेः सकाशात् (अवद्यवत्याः) निन्द्यकर्मयुक्तायाः (उन्नेष्यति) उद्धरिष्यति (क्षत्रियः) अ० ४।२२।१। क्षत्रे राज्ये साधुः (वस्यः) अ० ६।४७।३। वसीयः। प्रशस्तं फलम् (इच्छन्) अभिलष्यन् (कः) (यज्ञकामः) पूजनीयव्यवहारं कामयमानः (कः) (उ) एव (पूर्तिकामः) सिद्धिकामः (कः) (देवेषु) उत्तमगुणेषु वर्तमानः (वनुते) वनु याचने। याचते (दीर्घम्) (आयुः) जीवनम् ॥

    इस भाष्य को एडिट करें
    Top