Loading...
अथर्ववेद > काण्ड 7 > सूक्त 110

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 110/ मन्त्र 2
    सूक्त - भृगुः देवता - इन्द्राग्नी छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    याभ्या॒मज॑य॒न्त्स्वरग्र॑ ए॒व यावा॑त॒स्थतु॒र्भुव॑नानि॒ विश्वा॑। प्र च॑र्ष॒णी वृष॑णा॒ वज्र॑बाहू अ॒ग्निमिन्द्रं॑ वृत्र॒हणा॑ हुवे॒ऽहम् ॥

    स्वर सहित पद पाठ

    याभ्या॑म् । अज॑यन् । स्व᳡: । अग्रे॑ । ए॒व । यौ । आ॒ऽत॒स्थतु॑: । भुव॑नानि । विश्वा॑ । प्रच॑र्षणी॒ इति॒ प्रऽच॑र्षणी । वृष॑णा । वज्र॑बाहू॒ इति॒ वज्र॑ऽबाहू । अ॒ग्निम् । इन्द्र॑म् । वृ॒त्र॒ऽहना॑ । हु॒वे । अ॒हम् ॥११५.२॥


    स्वर रहित मन्त्र

    याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा। प्र चर्षणी वृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम् ॥

    स्वर रहित पद पाठ

    याभ्याम् । अजयन् । स्व: । अग्रे । एव । यौ । आऽतस्थतु: । भुवनानि । विश्वा । प्रचर्षणी इति प्रऽचर्षणी । वृषणा । वज्रबाहू इति वज्रऽबाहू । अग्निम् । इन्द्रम् । वृत्रऽहना । हुवे । अहम् ॥११५.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 110; मन्त्र » 2

    टिप्पणीः - २−(याभ्याम्) राजमन्त्रिभ्याम् (अजयन्) प्राप्तवन्तो महात्मानः (स्वः) अ० २।५।२। सुखम् (अग्रे) पूर्वकाले (एव) अवश्यम् (यौ) (आतस्थतुः) व्याप्तवन्तौ (भुवनानि) भूतजातानि (विश्वा) सर्वाणि (प्रचर्षणी) अ० ४।२४।३। शीघ्रगामिनौ। प्रकृष्टमनुष्यवन्तौ (वृषणा) इन्द्रौ। पराक्रमिणौ (वज्रबाहू) वज्रवद् लौहतुल्यौ दृढौ बाहू ययोस्तौ (अग्निम्) तेजस्विनं मन्त्रिणम् (इन्द्रम्) प्रतापिनं राजानम् (वृत्रहणा) विघ्ननाशकौ (हुवे) आह्वयामि (अहम्) प्रजागणः ॥

    इस भाष्य को एडिट करें
    Top