Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 113/ मन्त्र 1
सूक्त - भार्गवः
देवता - तृष्टिका
छन्दः - विराडनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
तृष्टि॑के॒ तृष्ट॑वन्दन॒ उद॒मूं छि॑न्धि तृष्टिके। यथा॑ कृ॒तद्वि॒ष्टासो॒ऽमुष्मै॑ शे॒प्याव॑ते ॥
स्वर सहित पद पाठतृष्टि॑के । तृष्ट॑ऽवन्दने । उत् । अ॒मूम् । छि॒न्धि॒ । तृ॒ष्टि॒के॒ । यथा॑ । कृ॒तऽद्वि॑ष्टा । अस॑: । अ॒मुष्मै॑ । शे॒प्याऽव॑ते ॥११८.१॥
स्वर रहित मन्त्र
तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके। यथा कृतद्विष्टासोऽमुष्मै शेप्यावते ॥
स्वर रहित पद पाठतृष्टिके । तृष्टऽवन्दने । उत् । अमूम् । छिन्धि । तृष्टिके । यथा । कृतऽद्विष्टा । अस: । अमुष्मै । शेप्याऽवते ॥११८.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 113; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(तृष्टिके) ञितृषा पिपासायाम्-क्त। कुत्सिते। पा० ५।३।७४। इति क प्रत्ययः। हे कुत्सिततृष्णे (तृष्टवन्दने) वदि अभिवादनस्तुत्योः-युच्, टाप्। तृष्टस्य लोलुपताया लतारूपे (उत्) उत्कर्षेण (अमूम्) कृषिचमितनि० उ० १।८०। अम रोगे पीडने-ऊ प्रत्ययः स्त्रियाम्। पीडाम् (छिन्धि) भिन्द्धि (तृष्टिके) ञितृषा-क्विप्+टिक गतौ-क। तृषि लोभे टेकते गच्छति या सा तत्सम्बुद्धौ (यथा) येन प्रकारेण, तथा क्रियतामिति शेषः (कृतद्विष्टा) कृ हिंसायाम्-क्त। कृतं नाशितम् द्विष्टं द्वेषणं यया सा (असः) भवेः (अमुष्मै) प्रसिद्धाय (शेप्यावते) शेपो बलम्, स्वार्थे-यत्, टाप्। शक्तिमते पुरुषाय ॥
इस भाष्य को एडिट करें