Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 17/ मन्त्र 3
सूक्त - भृगुः
देवता - सविता
छन्दः - त्रिष्टुप्
सूक्तम् - द्रविणार्थप्रार्थना सूक्त
धा॒ता विश्वा॒ वार्या॑ दधातु प्र॒जाका॑माय दा॒शुषे॑ दुरो॒णे। तस्मै॑ दे॒वा अ॒मृतं॒ सं व्य॑यन्तु॒ विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ॥
स्वर सहित पद पाठधा॒ता । विश्वा॑ । वार्या॑ । द॒धा॒तु॒ । प्र॒जाऽका॑माय । दा॒शुषे॑ । दु॒रो॒णे । तस्मै॑ । दे॒वा: । अ॒मृत॑म् । सम् । व्य॒य॒न्तु॒ । विश्वे॑ । दे॒वा: । अदि॑ति: । स॒ऽजोषा॑: ॥१८.३॥
स्वर रहित मन्त्र
धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे। तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः ॥
स्वर रहित पद पाठधाता । विश्वा । वार्या । दधातु । प्रजाऽकामाय । दाशुषे । दुरोणे । तस्मै । देवा: । अमृतम् । सम् । व्ययन्तु । विश्वे । देवा: । अदिति: । सऽजोषा: ॥१८.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 17; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(धाता) (विश्वा) सर्वाणि (वार्या) उत्तमानि विज्ञानानि धनानि च (दधातु) प्रयच्छतु (प्रजाकामाय) उत्तमसन्तानभृत्यादीच्छवे (दुरोणे) अ० ५।२।६। गृहे (तस्मै) पुरुषाय (देवाः) विद्वांसः (अमृतम्) अमरणम्। पूर्णसुखम् (सम्) सम्यक् (व्ययन्तु) व्यय गतौ, वित्तसमुत्सर्गे च। गमयन्तु। ददतु (विश्वे) सर्वे (देवाः) उत्तमगुणाः (अदितिः) अदीना पृथिवी (सजोषाः) समानप्रीतिः ॥
इस भाष्य को एडिट करें