Loading...
अथर्ववेद > काण्ड 7 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 17/ मन्त्र 4
    सूक्त - भृगुः देवता - सविता छन्दः - त्रिष्टुप् सूक्तम् - द्रविणार्थप्रार्थना सूक्त

    धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्नि॒धिप॑तिर्नो अ॒ग्निः। त्वष्टा॒ विष्णुः॑ प्र॒जया॑ संररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ॥

    स्वर सहित पद पाठ

    धा॒ता । रा॒ति: । स॒वि॒ता । इ॒दम् । जु॒ष॒न्ता॒म् । प्र॒जाऽप॑ति: । नि॒धिऽप॑ति: । न॒: । अ॒ग्नि: । त्वष्टा॑ । विष्णु॑: । प्र॒ऽजया॑ । स॒म्ऽर॒रा॒ण । यज॑मानाय । द्रवि॑णम् । द॒धा॒तु॒ ॥१८.४॥


    स्वर रहित मन्त्र

    धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः। त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु ॥

    स्वर रहित पद पाठ

    धाता । राति: । सविता । इदम् । जुषन्ताम् । प्रजाऽपति: । निधिऽपति: । न: । अग्नि: । त्वष्टा । विष्णु: । प्रऽजया । सम्ऽरराण । यजमानाय । द्रविणम् । दधातु ॥१८.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 17; मन्त्र » 4

    टिप्पणीः - ४−(धाता) धारकः (रातिः) कर्तरि क्तिच्। दानाध्यक्षः (सविता) नायकः (इदम्) दृश्यमानं गृहस्थकर्म (प्रजापतिः) प्रजापालकः (निधिपतिः) कोशाध्यक्षः (नः) अस्माकम् (अग्निः) अग्नितुल्योऽविद्यान्धकार-दाहको विद्वान् (त्वष्टा) अ० २।५।६। सृष्टिकर्त्ता (विष्णुः) सर्वव्यापकः (प्रजया) (संरराणः) अ० ˜२।३४।३। सम्यग् दाता (यजमानाय) पदार्थानां संयोजकवियोजकविज्ञानिने (द्रविणम्) बलं धनं वा (दधातु) ददातु ॥

    इस भाष्य को एडिट करें
    Top