Loading...
अथर्ववेद > काण्ड 7 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 18/ मन्त्र 1
    सूक्त - अथर्वा देवता - पर्जन्यः, पृथिवी छन्दः - चतुष्पदा भुरिगुष्णिक् सूक्तम् - वृष्टि सूक्त

    प्र न॑भस्व पृथिवि भि॒न्द्धी॒दं दि॒व्यं नभः॑। उ॒द्नो दि॒व्यस्य॑ नो धात॒रीशा॑नो॒ वि ष्या॒ दृति॑म् ॥

    स्वर सहित पद पाठ

    प्र । न॒भ॒स्व॒ । पृ॒थि॒व‍ि॒ । भि॒न्ध्दि । इ॒दम् । दि॒व्यम् ।नभ॑: । उ॒द्ग: । दि॒व्यस्य॑ । न॒:। धा॒त॒: । ईशा॑न: । वि । स्य॒ । दृति॑म् ॥१९.१॥


    स्वर रहित मन्त्र

    प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः। उद्नो दिव्यस्य नो धातरीशानो वि ष्या दृतिम् ॥

    स्वर रहित पद पाठ

    प्र । नभस्व । पृथिव‍ि । भिन्ध्दि । इदम् । दिव्यम् ।नभ: । उद्ग: । दिव्यस्य । न:। धात: । ईशान: । वि । स्य । दृतिम् ॥१९.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 18; मन्त्र » 1

    टिप्पणीः - १−(प्र) प्रकर्षेण (नभस्व) नभते, वधकर्मा-निघ० २।१९। पातय (पृथिवि) अन्तरिक्ष-निघ० १।३। वायो इत्यर्थः (भिन्द्धि) छिन्नं भिन्नं कुरु (इदम्) (दिव्यम्) दिव्याकाशे भवम् (नभः) उदकम्-निघ० ११।१२। (उद्नः) पद्दन्नोमास्हृन्निश०। पा० ६।१।६३। उदकस्य, उदन्। उदकस्य (दिव्यस्य) उत्तमगुणस्य (नः) अस्मभ्यम् (धातः) हे पोषक सूर्य (ईशानः) समर्थः (वि ष्य) षो अन्तकर्मणि। विमुञ्च (दृतिम्) दृणातेर्ह्रस्वः। उ० ४।१८४। इति दॄ विदारणे-ति। चर्ममयं जलपात्रम् ॥

    इस भाष्य को एडिट करें
    Top