Loading...
अथर्ववेद > काण्ड 7 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 18/ मन्त्र 2
    सूक्त - अथर्वा देवता - पर्जन्यः, पृथिवी छन्दः - त्रिष्टुप् सूक्तम् - वृष्टि सूक्त

    न घ्रंस्त॑ताप॒ न हि॒मो ज॑घान॒ प्र न॑भतां पृथि॒वी जी॒रदा॑नुः। आप॑श्चिदस्मै घृ॒तमित्क्ष॑रन्ति॒ यत्र॒ सोमः॒ सद॒मित्तत्र॑ भ॒द्रम् ॥

    स्वर सहित पद पाठ

    न । घ्रन् । त॒ता॒प॒ । न । हि॒म: । ज॒घा॒न॒ । प्र । न॒भ॒ता॒म् । पृ॒थि॒वी । जी॒रऽदा॑नु: । आप॑: । चि॒त् । अ॒स्मै॒ । घृ॒तम् । इत् । क्ष॒र॒न्ति॒ । यत्र॑ । सोम॑: । सद॑म् । इत् । तत्र॑ । भ॒द्रम् ॥१९.२॥


    स्वर रहित मन्त्र

    न घ्रंस्तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः। आपश्चिदस्मै घृतमित्क्षरन्ति यत्र सोमः सदमित्तत्र भद्रम् ॥

    स्वर रहित पद पाठ

    न । घ्रन् । तताप । न । हिम: । जघान । प्र । नभताम् । पृथिवी । जीरऽदानु: । आप: । चित् । अस्मै । घृतम् । इत् । क्षरन्ति । यत्र । सोम: । सदम् । इत् । तत्र । भद्रम् ॥१९.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 18; मन्त्र » 2

    टिप्पणीः - २−(न) निषेधे (घ्रन्) घृ भासे-शतृ, अकारलोपः। घरन्। भासमानः सूर्यः (तताप) छन्दसि लुङ्लङ्लिटः। पा० ३।४।६। लिङर्थे-लिट्। तापयेत् (न) (हिमः) हन्तेर्हि च। उ० १।१४७। हन्तेर्मक्। शीतलस्पर्शः (जघान) हन्यात् (प्र) प्रकर्षेण (नभताम्) म० १। हन्तु। पातयतु, नभ इति शेषः-म० १ (पृथिवी) अन्तरिक्षम् (जीरदानुः) जीर-दानुः। जोरी च। उ० २।२३। जु गतौ-रक्, ईकारादेशः। जीराः क्षिप्रनाम-निघ० २।१५। दाभाभ्यां नुः। ३०३।३२। इति ददातेर्नु। गतिप्रदा (आपः) सर्वाः प्रजाः (चित्) अपि (अस्मै) जगते (घृतम्) तत्त्वरसम् (क्षरन्ति) सिञ्चन्ति (यत्र) (सोमः) ऐश्वर्यम् (सदम्) सर्वदा (तत्र) (भद्रम्) कल्याणम् ॥

    इस भाष्य को एडिट करें
    Top