Loading...
अथर्ववेद > काण्ड 7 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 19/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - धाता, प्रजापतिः, पुष्टपतिः छन्दः - जगती सूक्तम् - प्रजा सूक्त

    प्र॒जाप॑तिर्जनयति प्र॒जा इ॒मा धा॒ता द॑धातु सुमन॒स्यमा॑नः। सं॑जाना॒नाः संम॑नसः॒ सयो॑नयो॒ मयि॑ पु॒ष्टं पु॑ष्ट॒पति॑र्दधातु ॥

    स्वर सहित पद पाठ

    प्र॒जाऽप॑ति: । ज॒न॒य॒ति॒ । प्र॒ऽजा: । इ॒मा: । धा॒ता: । द॒धा॒तु॒ । सु॒ऽम॒न॒स्यमा॑ना: । स॒म्ऽजा॒ना॒ना: । सम्ऽम॑नस: । सऽयो॑नय: । मयि॑ । पु॒ष्टम् । पु॒ष्ट॒ऽपति॑: । द॒धा॒तु॒ ॥२०.१॥


    स्वर रहित मन्त्र

    प्रजापतिर्जनयति प्रजा इमा धाता दधातु सुमनस्यमानः। संजानानाः संमनसः सयोनयो मयि पुष्टं पुष्टपतिर्दधातु ॥

    स्वर रहित पद पाठ

    प्रजाऽपति: । जनयति । प्रऽजा: । इमा: । धाता: । दधातु । सुऽमनस्यमाना: । सम्ऽजानाना: । सम्ऽमनस: । सऽयोनय: । मयि । पुष्टम् । पुष्टऽपति: । दधातु ॥२०.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 19; मन्त्र » 1

    टिप्पणीः - १−(प्रजापतिः) सृष्टिपालकः परमात्मा (जनयति) उत्पादयति (प्रजाः) सर्वाः सृष्टीः (इमाः) परिदृश्यमानाः (धाता) पोषकः (दधातु) पोषयतु (सुमनस्यमानः) अ० १।३५।१। शुभचिन्तकः (संजानानाः) समानज्ञानाः (संमनसः) संगतमनस्काः (सयोनयः) समानकारणाः प्रजाः (मयि) उपासके (पुष्टम्) पोषम् (पुष्टपतिः) पोषस्य रक्षकः (दधातु) (धरयतु) ॥

    इस भाष्य को एडिट करें
    Top