अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 2
अन्विद॑नुमते॒ त्वं मंस॑से॒ शं च॑ नस्कृधि। जुषस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि ररास्व नः ॥
स्वर सहित पद पाठअनु॑ । इत् । अ॒नु॒ऽम॒ते॒ । त्वम् । मंस॑से । शम् । च॒ । न॒: । कृ॒धि॒ । जु॒षस्व॑ । ह॒व्यम् । आऽहु॑तम् । प्र॒ऽजाम् । दे॒वि॒ । र॒रा॒स्व॒। न॒: ॥२१.२॥
स्वर रहित मन्त्र
अन्विदनुमते त्वं मंससे शं च नस्कृधि। जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥
स्वर रहित पद पाठअनु । इत् । अनुऽमते । त्वम् । मंससे । शम् । च । न: । कृधि । जुषस्व । हव्यम् । आऽहुतम् । प्रऽजाम् । देवि । ररास्व। न: ॥२१.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अनु) निरन्तरम् (इत्) एव (अनुमते)-म० १। अनुकूलबुद्धे (त्वम्) (मंससे) मन ज्ञाने अवबोधने च, लेट्। सिब्बहुलं लेटि। पा० ३।१।३४। इति सिप्। लेटोऽडाटौ। पा० ३।४।९४। इत्यट्। अवमन्येथाः (शम्) कल्याणम् (च) (नः) अस्मभ्यम् (जुषस्व) स्वीकुरु (हव्यम्) ग्राह्यम् (आहुतम्) समन्तात् समर्पितम् (प्रजाम्) सन्तानभृत्यादिरूपाम् (देवि) दिव्यगुणे (ररास्व) रातेः शपः श्लुः, आत्मनेपदं च। देहि ॥
इस भाष्य को एडिट करें