अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 3
अनु॑ मन्यतामनु॒मन्य॑मानः प्र॒जाव॑न्तं र॒यिमक्षी॑यमाणम्। तस्य॑ व॒यं हेड॑सि॒ मापि॑ भूम सुमृडी॒के अ॑स्य सुम॒तौ स्या॑म ॥
स्वर सहित पद पाठअनु॑ । म॒न्य॒ता॒म् । अ॒नु॒ऽमन्य॑मान: । प्र॒जाऽव॑न्तम् । र॒यिम् । अक्षी॑यमाणम् । तस्य॑ । व॒यम् । हेड॑सि । मा । अपि॑ । भू॒म॒ । सु॒ऽमृ॒डी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥२१.३॥
स्वर रहित मन्त्र
अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम्। तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥
स्वर रहित पद पाठअनु । मन्यताम् । अनुऽमन्यमान: । प्रजाऽवन्तम् । रयिम् । अक्षीयमाणम् । तस्य । वयम् । हेडसि । मा । अपि । भूम । सुऽमृडीके । अस्य । सुऽमतौ । स्याम ॥२१.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अनु) सर्वदा (मन्यताम्) ज्ञापयतु (अनुमन्यमानः) निरन्तरं मन्ता ज्ञाता परमेश्वरः (प्रजावन्तम्) प्रशस्तसन्तानभृत्यादियुक्तम् (रयिम्) धनम् (अक्षीयमाणम्) क्षि क्षये-शानच्। अक्षीणम् (तस्य) ईश्वरस्य (वयम्) (हेडसि) क्रोधे-निघ० २।१३। (अपि) कदापि (मा भूम) न स्याम (सुमृडीके) मृडः कीकच्कङ्कणौ। उ० ४।२४। इति मृड सुखने-कीकच्। शोभने सुखे (अस्य) (सुमतौ) कल्याण्यां बुद्धौ (स्याम) भवेम ॥
इस भाष्य को एडिट करें