Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 24/ मन्त्र 1
यन्न॒ इन्द्रो॒ अख॑न॒द्यद॒ग्निर्विश्वे॑ दे॒वा म॒रुतो॒ यत्स्व॒र्काः। तद॒स्मभ्यं॑ सवि॒ता स॒त्यध॑र्मा प्र॒जाप॑ति॒रनु॑मति॒र्नि य॑च्छात् ॥
स्वर सहित पद पाठयत् । न॒: । इन्द्र॑: । अख॑नत् । यत् । अ॒ग्नि: । विश्वे॑ । दे॒वा: । म॒रुत॑: । यत् । सु॒ऽअ॒र्का: । तत् । अ॒स्मभ्य॑म् । स॒वि॒ता । स॒त्यऽध॑र्मा । प्र॒जाऽप॑ति: । अनु॑ऽपति: । नि । य॒च्छा॒त् ॥२५.१॥
स्वर रहित मन्त्र
यन्न इन्द्रो अखनद्यदग्निर्विश्वे देवा मरुतो यत्स्वर्काः। तदस्मभ्यं सविता सत्यधर्मा प्रजापतिरनुमतिर्नि यच्छात् ॥
स्वर रहित पद पाठयत् । न: । इन्द्र: । अखनत् । यत् । अग्नि: । विश्वे । देवा: । मरुत: । यत् । सुऽअर्का: । तत् । अस्मभ्यम् । सविता । सत्यऽधर्मा । प्रजाऽपति: । अनुऽपति: । नि । यच्छात् ॥२५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 24; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यत्) ऐश्वर्यम् (नः) अस्मभ्यम् (इन्द्रः) परमैश्वर्ययुक्तो मनुष्यः (अखनत्) खननेन प्राप्तवान् (यत्) (अग्निः) अग्निवत्तेजस्वी (विश्वे) सर्वे (देवाः) व्यवहारकुशलाः (मरुतः) अ० १।२०।१। शूराः (यत्) ऐश्वर्यम् (स्वर्काः) कृदाधारार्चिकलिभ्यः कः। उ० ३।४०। अर्च पूजायां क, चस्य कः। अर्कः=अन्नम्-निघ० २।७। वज्रः−२।२०। अर्को देवो भवति यदेनमर्चन्त्यर्को मन्त्रो भवति यदनेनार्चन्त्यर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति संवृतः कटुकिम्ना०-निरु० ५।४। शोभनान्नाः। सुवज्रिणः। सुपण्डिताः। सुमन्त्रिणः (तत्) ऐश्वर्यम् (अस्मभ्यम्) (सविता) सर्वस्रष्टा (सत्यधर्मा) सत्यानि धर्माणि धारणसामर्थ्यानि यस्य सः (प्रजापतिः) प्रजापालकः (अनुमतिः) अनुकूलो मतिर्बुद्धिर्यस्य सः (नि) नियमेन (यच्छात्) दद्यात् ॥
इस भाष्य को एडिट करें