Loading...
अथर्ववेद > काण्ड 7 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 26/ मन्त्र 8
    सूक्त - मेधातिथिः देवता - विष्णुः छन्दः - गायत्री सूक्तम् - विष्णु सूक्त

    दि॒वो वि॑ष्ण उ॒त वा॑ पृ॑थि॒व्या म॒हो वि॑ष्ण उ॒रोर॒न्तरि॑क्षात्। हस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यैरा॒प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् ॥

    स्वर सहित पद पाठ

    दि॒व: । वि॒ष्णो॒ इति॑ । उ॒त । वा॒ । पृ॒थि॒व्या: । म॒ह: । वि॒ष्णो॒ इति॑ । उ॒रो: । अ॒न्तरि॑क्षात् । हस्तौ॑ । पृ॒ण॒स्व॒ । ब॒हुऽभि॑: । व॒स॒व्यै᳡: । आ॒ऽप्रय॑च्छ । दक्षि॑णात् । आ । उ॒त । स॒व्यात् ॥२७.८॥


    स्वर रहित मन्त्र

    दिवो विष्ण उत वा पृथिव्या महो विष्ण उरोरन्तरिक्षात्। हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दक्षिणादोत सव्यात् ॥

    स्वर रहित पद पाठ

    दिव: । विष्णो इति । उत । वा । पृथिव्या: । मह: । विष्णो इति । उरो: । अन्तरिक्षात् । हस्तौ । पृणस्व । बहुऽभि: । वसव्यै: । आऽप्रयच्छ । दक्षिणात् । आ । उत । सव्यात् ॥२७.८॥

    अथर्ववेद - काण्ड » 7; सूक्त » 26; मन्त्र » 8

    टिप्पणीः - ८−(दिवः) प्रकाशमानात् सूर्यात् (विष्णो) हे सर्वव्यापक ! (उत) अपि (वा) अथवा (पृथिव्याः) भूलोकात् (महः) मह-क्विप्। विशालात् (उरोः) उरुणः। विस्तीर्णात् (अन्तरिक्षात्) आकाशात् (हस्तौ) करौ (पृणस्व) पूरय (बहुभिः) अधिकैः (वसव्यैः) वसोः समूहे च। पा० ४।४।१४०। वसु-यत्। वसूनां धनानां समूहैः (आप्रयच्छ) समन्ताद् देहि (दक्षिणात्) दक्षिणहस्तात् (आ) चार्थे (उत) अपि (सव्यात्) वामहस्तात् ॥

    इस भाष्य को एडिट करें
    Top