Loading...
अथर्ववेद > काण्ड 7 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 36/ मन्त्र 1
    सूक्त - अथर्वा देवता - अक्षि छन्दः - अनुष्टुप् सूक्तम् - अञ्जन सूक्त

    अ॒क्ष्यौ नौ॒ मधु॑संकाशे॒ अनी॑कं नौ स॒मञ्ज॑नम्। अ॒न्तः कृ॑णुष्व॒ मां हृ॒दि मन॒ इन्नौ॑ स॒हास॑ति ॥

    स्वर सहित पद पाठ

    अ॒क्ष्यौ᳡ । नौ॒ । मधु॑संकाशे॒ इति॒ मधु॑ऽसंकाशे । अनी॑कम् । नौ॒ । स॒म्ऽअञ्ज॑नम् । अ॒न्त: । कृ॒णु॒ष्व॒ । माम् । हृ॒दि । मन॑: । इत् । नौ॒ । स॒ह । अस॑ति ॥३७.१॥


    स्वर रहित मन्त्र

    अक्ष्यौ नौ मधुसंकाशे अनीकं नौ समञ्जनम्। अन्तः कृणुष्व मां हृदि मन इन्नौ सहासति ॥

    स्वर रहित पद पाठ

    अक्ष्यौ । नौ । मधुसंकाशे इति मधुऽसंकाशे । अनीकम् । नौ । सम्ऽअञ्जनम् । अन्त: । कृणुष्व । माम् । हृदि । मन: । इत् । नौ । सह । असति ॥३७.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 36; मन्त्र » 1

    टिप्पणीः - १−(अक्ष्यौ) अ० १।—२७।१। अक्षिणी (नौ) आवयोः (मधुसङ्काशे) काश दीप्तौ-अच्। ज्ञानप्रकाशिके (अनीकम्) अनिहृषिभ्यां किच्च। उ० ४।१७। अन जीवने-ईकन्। मुखप्रदेशः (समञ्जनम्) सम्यग्व्यक्तिकरं विकाशकम् (अन्तः) मध्ये (कृणुष्व) कुरु (माम्) मित्रम् (हृदि) हृदये (मनः) चित्तम् (इत्) एव (नौ) आवयोः (सह) परस्परमिलितम् (असति) भूयात् ॥

    इस भाष्य को एडिट करें
    Top