Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 37/ मन्त्र 1
अ॒भि त्वा॒ मनु॑जातेन॒ दधा॑मि॒ मम॒ वास॑सा। यथाऽसो॒ मम॒ केव॑लो॒ नान्यासां॑ की॒र्तया॑श्च॒न ॥
स्वर सहित पद पाठअ॒भि । त्वा॒ । मनु॑ऽजातेन । दधा॑मि । मम॑ । वास॑सा । यथा॑ । अस॑: । मम॑ । केव॑ल: । न । अ॒न्यासा॑म् । की॒र्तया॑: । च॒न ॥३८.१॥
स्वर रहित मन्त्र
अभि त्वा मनुजातेन दधामि मम वाससा। यथाऽसो मम केवलो नान्यासां कीर्तयाश्चन ॥
स्वर रहित पद पाठअभि । त्वा । मनुऽजातेन । दधामि । मम । वाससा । यथा । अस: । मम । केवल: । न । अन्यासाम् । कीर्तया: । चन ॥३८.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 37; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(त्वा) पतिम् (मनुजातेन) मननशीलेषु मनुष्येषु प्रसिद्धेन (अभि दधामि) अभिपूर्वो दधातिर्बन्धने। बध्नामि (वाससा) वस्त्रेण यथा येन प्रकारेण (असः) असेलेर्टि, अडागमः। भवेः (मम) (केवलः) असाधारणः (न) निषेधे (अन्यासाम्) अन्यस्त्रीणाम् (कीर्तयाः) कॄत संशब्दने, णिचि। उपधायाश्च। पा० ७।१।१०१। इत्वम्। उपधायां च। पा० ८।२।७८। इति दीर्घः, लेटि आडागमः। कीर्तयेः। कीर्तनं ध्यानं कुर्याः (चन) चार्थे ॥
इस भाष्य को एडिट करें