Loading...
अथर्ववेद > काण्ड 7 > सूक्त 38

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 38/ मन्त्र 1
    सूक्त - अथर्वा देवता - आसुरी वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - केवलपति सूक्त

    इ॒दं ख॑नामि भेष॒जं मां॑प॒श्यम॑भिरोरु॒दम्। प॑राय॒तो नि॒वर्त॑नमाय॒तः प्र॑ति॒नन्द॑नम् ॥

    स्वर सहित पद पाठ

    इ॒दम् । ख॒ना॒मि॒ । भे॒ष॒जम् । मा॒म्ऽप॒श्यम् । अ॒भि॒ऽरो॒रु॒दम् । प॒रा॒ऽय॒त: । नि॒ऽवर्त॑नम् । आ॒ऽय॒त: । प्र॒ति॒ऽनन्द॑नम् । ३९.१॥


    स्वर रहित मन्त्र

    इदं खनामि भेषजं मांपश्यमभिरोरुदम्। परायतो निवर्तनमायतः प्रतिनन्दनम् ॥

    स्वर रहित पद पाठ

    इदम् । खनामि । भेषजम् । माम्ऽपश्यम् । अभिऽरोरुदम् । पराऽयत: । निऽवर्तनम् । आऽयत: । प्रतिऽनन्दनम् । ३९.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 38; मन्त्र » 1

    टिप्पणीः - १−(इदम्) प्रतिज्ञारूपम् (खनामि) खननेन अन्वेषणेन प्राप्नोमि (भेषजम्) भयनिवारकमषौधम् (मांपश्यम्) इन्दिरा लोकमाता मा-अमर० १।२९। मा=लक्ष्मीः। पाघ्राध्माधेट्दृशः शः। पा० ३।१।१३७। इति दृशेः शप्रत्ययः। पाघ्राघ्मा०। पा० ७।३।७८। पश्यादेशः। तत्पुरुषे कृति बहुलम्। पा० ६।३।१४। इति द्वितीयाया अलुक्। मां लक्ष्मीं पश्यत् विलोकयत् (अभिरोरुदम्) अभि+रोरु+दम्। मीपीभ्यां रुः। उ० ४।१०१। इति रुङ् गतिरेषणयोः-रु+दा-क। अभिरोरोः, अभिगतेः परस्परसंगतेः प्रदम् (परायतः) परा+आङ्+इण् गतौ-शतृ। दूरंगच्छतः पुरुषस्य (निवर्त्तनम्) पुनरागमनकारणम् (आयतः) आगच्छतः पत्युः (प्रतिनन्दनम्) स्वागतकरम् ॥

    इस भाष्य को एडिट करें
    Top