अथर्ववेद - काण्ड 7/ सूक्त 38/ मन्त्र 3
सूक्त - अथर्वा
देवता - आसुरी वनस्पतिः
छन्दः - चतुष्पदोष्णिक्
सूक्तम् - केवलपति सूक्त
प्र॒तीची॒ सोम॑मसि प्र॒तीच्यु॒त सूर्य॑म्। प्र॒तीची॒ विश्वा॑न्दे॒वान्तां त्वा॒च्छाव॑दामसि ॥
स्वर सहित पद पाठप्र॒तीची॑ । सोम॑म् । अ॒सि॒ । प्र॒तीची॑ । उ॒त । सूर्य॑म् । प्र॒तीची॑ । विश्वा॑न् । दे॒वान् । ताम् । त्वा॒ । अ॒च्छ॒ऽआव॑दामसि ॥३९.३॥
स्वर रहित मन्त्र
प्रतीची सोममसि प्रतीच्युत सूर्यम्। प्रतीची विश्वान्देवान्तां त्वाच्छावदामसि ॥
स्वर रहित पद पाठप्रतीची । सोमम् । असि । प्रतीची । उत । सूर्यम् । प्रतीची । विश्वान् । देवान् । ताम् । त्वा । अच्छऽआवदामसि ॥३९.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 38; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(प्रतीची) प्रति+अञ्चु गतौ-क्विन्। अञ्चतेश्चोपसंख्यानम्। वा० पा० ४।१।६। ङीप्। अधः। पा० ६।४।१३८। अकारलोपः। चौ। पा० ६।४।२२२। पूर्वपदस्य दीर्घः। प्रति निश्चयेन गतिमती ज्ञानवती (सोमम्) चन्द्रम्, चन्द्रतुल्यशान्तस्वभावम् (असि) अससि स्थाने असि रूपम्। अस ग्रहणे गतौ च-लट्। गच्छसि। प्राप्नोषि (प्रतीची) प्रतिज्ञया गतिमती मार्गवती (उत) अपि च (सूर्यम्) सूर्यतुल्यप्रतापम् (प्रतीची) प्रति प्रतिष्ठया गतिमती प्रयत्नवती (विश्वान्) सर्वान् (देवान्) दिव्यगुणान् (ताम्) तथाभूताम् (त्वा) त्वां वधूम् (अच्छावदामसि) अ० ६।५९।३। अच्छ सत्कारेण आह्वयामः ॥
इस भाष्य को एडिट करें