Loading...
अथर्ववेद > काण्ड 7 > सूक्त 38

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 38/ मन्त्र 5
    सूक्त - अथर्वा देवता - आसुरी वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - केवलपति सूक्त

    यदि॒ वासि॑ तिरोज॒नं यदि॑ वा न॒द्यस्तिरः। इ॒यं ह॒ मह्यं॒ त्वामोष॑धिर्ब॒द्ध्वेव॒ न्यान॑यत् ॥

    स्वर सहित पद पाठ

    यदि॑। वा॒ । असि॑ । ति॒र॒:ऽज॒नम् । यदि॑ । वा॒ । न॒द्य᳡: । ति॒र: । इ॒यम् । ह॒ । मह्य॑म्। त्वाम् । ओष॑धि: । ब॒ध्द्वाऽइ॑व । नि॒ऽआन॑यत् ॥३९.५॥


    स्वर रहित मन्त्र

    यदि वासि तिरोजनं यदि वा नद्यस्तिरः। इयं ह मह्यं त्वामोषधिर्बद्ध्वेव न्यानयत् ॥

    स्वर रहित पद पाठ

    यदि। वा । असि । तिर:ऽजनम् । यदि । वा । नद्य: । तिर: । इयम् । ह । मह्यम्। त्वाम् । ओषधि: । बध्द्वाऽइव । निऽआनयत् ॥३९.५॥

    अथर्ववेद - काण्ड » 7; सूक्त » 38; मन्त्र » 5

    टिप्पणीः - ५−(यदि वा) अथवा (असि) भवसि (तिरोजनम्) क्रियाविशेषणमेतत्। तिरोऽन्तर्हितोऽदृष्टो जनो यस्मिन्स्थाने तस्मिन् (यदि वा) (नद्यः) सरितः (तिरः) तिरोभूत्वा व्यवधानेन वर्तन्ते (इयम्) प्रतिज्ञारूपा (ह) एव (मह्यम्) मदर्थम् (त्वाम्) पतिम् (ओषधिः) (बद्ध्वा) निगृह्य (इव) (न्यानयत्) नयतेर्लेटि, अडागमः। नितरामानयेत् ॥

    इस भाष्य को एडिट करें
    Top