Loading...
अथर्ववेद > काण्ड 7 > सूक्त 39

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 39/ मन्त्र 1
    सूक्त - प्रस्कण्वः देवता - सुपर्णः, वृषभः छन्दः - त्रिष्टुप् सूक्तम् - आपः सूक्त

    दि॒व्यं सु॑प॒र्णं प॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ वृष॒भमोष॑धीनाम्। अ॑भीप॒तो वृ॒ष्ट्या त॒र्पय॑न्त॒मा नो॑ गो॒ष्ठे र॑यि॒ष्ठां स्था॑पयाति ॥

    स्वर सहित पद पाठ

    दि॒व्यम् । सु॒ऽप॒र्णम् । प॒य॒सम् । बृ॒हन्त॑म् । अ॒पाम् । गर्भ॑म् । वृ॒ष॒भम् । ओष॑धीनाम् । अ॒भी॒प॒त: । वृ॒ष्ट्या । त॒र्पय॑न्तम् । आ । न॒: । गो॒ऽस्थे । र॒यि॒ऽस्थाम् । स्था॒प॒य॒ति॒ ॥४०.१॥


    स्वर रहित मन्त्र

    दिव्यं सुपर्णं पयसं बृहन्तमपां गर्भं वृषभमोषधीनाम्। अभीपतो वृष्ट्या तर्पयन्तमा नो गोष्ठे रयिष्ठां स्थापयाति ॥

    स्वर रहित पद पाठ

    दिव्यम् । सुऽपर्णम् । पयसम् । बृहन्तम् । अपाम् । गर्भम् । वृषभम् । ओषधीनाम् । अभीपत: । वृष्ट्या । तर्पयन्तम् । आ । न: । गोऽस्थे । रयिऽस्थाम् । स्थापयति ॥४०.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 39; मन्त्र » 1

    टिप्पणीः - १−(दिव्यम्) दिव्यगुणम् (सुपर्णम्) रश्मियुक्तसूर्यतुल्यं विद्वांसम् (पयसम्) पय गतौ-असुन्, अर्शआद्यच्। गतिमन्तम् (बृहन्तम्) महान्तम् (अपाम्) अन्तरिक्षस्य-निघ० १।३। (गर्भम्) गर्भ इव मध्ये स्थितम् (वृषभम्) वर्षयितारं वर्धयितारम् (ओषधीनाम्) अन्नादीनाम् (अभीपतः) ऋक्पूरब्धूः०। पा० ५।४।७४। अभि+अप् शब्दाद्-अ। द्व्यन्तरुपसर्गेभ्योऽप ईत्। पा० ६।३।९७। अकारस्य ईत्वम्। ततस्तसिल्। अभितः सर्वत आपो यस्मिंस्तस्माद् मेघात् (वृष्ट्या) जलवर्षणेन (तर्पयन्तम्) हर्षयन्तम् (आ) आनीय (नः) अस्माकम् (गोष्ठे) वार्तालापस्थाने विद्वत्समाजे (रयिष्ठाम्) धने तिष्ठन्तम् (स्थापयाति) लेटि रूपम्। स्थापयेत् ॥

    इस भाष्य को एडिट करें
    Top