Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 40/ मन्त्र 1
सूक्त - प्रस्कण्वः
देवता - सरस्वान्
छन्दः - भुरिगुष्णिक्
सूक्तम् - सरस्वान् सूक्त
यस्य॑ व्र॒तं प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒त उ॑पतिष्ठन्त॒ आपः॑। यस्य॑ व्र॒ते पु॑ष्ट॒पति॒र्निवि॑ष्ट॒स्तं सर॑स्वन्त॒मव॑से हवामहे ॥
स्वर सहित पद पाठयस्य॑ । व्र॒तम् । प॒शव॑: । यन्ति॑ ।सर्वे॑ । यस्य॑ । व्र॒ते । उ॒प॒ऽतिष्ठ॑न्ते । आप॑: । यस्य॑ । व्र॒ते । पु॒ष्ट॒ऽपति॑: । निऽवि॑ष्ट: । तम् । सर॑स्वन्तम् । अव॑से । ह॒वा॒म॒हे॒ ॥४१.१॥
स्वर रहित मन्त्र
यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आपः। यस्य व्रते पुष्टपतिर्निविष्टस्तं सरस्वन्तमवसे हवामहे ॥
स्वर रहित पद पाठयस्य । व्रतम् । पशव: । यन्ति ।सर्वे । यस्य । व्रते । उपऽतिष्ठन्ते । आप: । यस्य । व्रते । पुष्टऽपति: । निऽविष्ट: । तम् । सरस्वन्तम् । अवसे । हवामहे ॥४१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 40; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यस्य) सरस्वतः (व्रतम्) वरणीयं नियमम् (पशवः) अ० २।२६।१। पशवः=व्यक्तवाचश्चाव्यक्तवाचश्च-निरु० ११।२९। सर्वे प्राणिनः (यन्ति) गच्छन्ति (व्रते) शासने (उपतिष्ठन्ते) अकर्मकाच्च। पा० १।३।२६। इत्यात्मनेपदम्। उपस्थिताः सन्ति (आपः) जलानि (पुष्टपतिः) पोषणस्य स्वामी। पूषा सूर्यः (तम्) तादृशम् (सरस्वन्तम्) सरांसि श्रेष्ठानि विज्ञानानि सन्ति यस्मिंस्तं परमेश्वरम् (अवसे) रक्षणाय (हवामहे) आह्वयामः ॥
इस भाष्य को एडिट करें