Loading...
अथर्ववेद > काण्ड 7 > सूक्त 38

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 38/ मन्त्र 4
    सूक्त - अथर्वा देवता - आसुरी वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - केवलपति सूक्त

    अ॒हं व॑दामि॒ नेत्त्वं स॒भाया॒मह॒ त्वं वद॑। ममेदस॒स्त्वं केव॑लो॒ नान्यासां॑ की॒र्तया॑श्च॒न ॥

    स्वर सहित पद पाठ

    अ॒हम् । व॒दा॒मि॒ । न । इत् । त्वम् । स॒भाया॑म् । अह॑ । त्वम् । वद॑ । मम॑ । इत् । अस॑: । त्वम् । केव॑ल: । न । अ॒न्यासा॑म् । की॒र्तया॑: । च॒न ॥३९.४॥


    स्वर रहित मन्त्र

    अहं वदामि नेत्त्वं सभायामह त्वं वद। ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥

    स्वर रहित पद पाठ

    अहम् । वदामि । न । इत् । त्वम् । सभायाम् । अह । त्वम् । वद । मम । इत् । अस: । त्वम् । केवल: । न । अन्यासाम् । कीर्तया: । चन ॥३९.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 38; मन्त्र » 4

    टिप्पणीः - ४−(अहम्) वधूः (वदामि) प्रतिजानामि (न) सम्प्रति-निरु० ७।३१। (इत्) एव (त्वम् त्वम्) वीप्सायां द्विर्वचनम् (सभायाम्) विद्वत्समाजे (अह) एव (वद) प्रतिजानीहि (मम) (इत्) एव। अन्यत्पूर्ववत् अ० ७।३७।१ ॥

    इस भाष्य को एडिट करें
    Top