Loading...
अथर्ववेद > काण्ड 7 > सूक्त 47

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 47/ मन्त्र 2
    सूक्त - अथर्वा देवता - कुहूः छन्दः - त्रिष्टुप् सूक्तम् - कुहू सूक्त

    कु॒हूर्दे॒वाना॑म॒मृत॑स्य॒ पत्नी॒ हव्या॑ नो अस्य ह॒विषो॑ जुषेत। शृ॑णोतु य॒ज्ञमु॑श॒ती नो॑ अ॒द्य रा॒यस्पोषं॑ चिकि॒तुषी॑ दधातु ॥

    स्वर सहित पद पाठ

    कु॒हू: । दे॒वाना॑म् । अ॒मृत॑स्य । पत्नी॑ । हव्या॑ । न॒: । अ॒स्य॒ । ह॒विष॑: । जु॒षे॒त॒ । शृ॒णोतु॑ । य॒ज्ञम् । उ॒श॒ती । न॒: । अ॒द्य । रा॒य: । पोष॑म् । चि॒कि॒तुषी॑ । द॒धा॒तु॒ ॥४९.२॥


    स्वर रहित मन्त्र

    कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषो जुषेत। शृणोतु यज्ञमुशती नो अद्य रायस्पोषं चिकितुषी दधातु ॥

    स्वर रहित पद पाठ

    कुहू: । देवानाम् । अमृतस्य । पत्नी । हव्या । न: । अस्य । हविष: । जुषेत । शृणोतु । यज्ञम् । उशती । न: । अद्य । राय: । पोषम् । चिकितुषी । दधातु ॥४९.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 47; मन्त्र » 2

    टिप्पणीः - २−(कुहूः) म० १। विचित्रस्वभावा (देवानाम्) विदुषां मध्ये (अमृतस्य) अमरस्य। पुरुषार्थिनः पुरुषस्य (पत्नी) भार्या (हव्या) आह्वातव्या। स्वीकरणीया वा (नः) अस्माकम् (अस्य) उपस्थितस्य (हविषः) ग्राह्यकर्मणः (जुषेत) सेवनं कुर्यात् (शृणोतु) आकर्णयतु (यज्ञम्) सत्सङ्गम् (उशती) वश कान्तौ-शतृ। कामयमाना (नः) अस्माकं वचनम् (अद्य) (रायः) धनस्य (पोषम्) वृद्धिम् (चिकितुषी) अ० ४।३०।२। विज्ञानवती (दधातु) पोषयतु ॥

    इस भाष्य को एडिट करें
    Top