Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 48/ मन्त्र 1
रा॒काम॒हं सु॒हवा॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑। सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्य॑म् ॥
स्वर सहित पद पाठरा॒काम् । अ॒हम् । सु॒ऽहवा॑ । सु॒ऽस्तु॒ती । हु॒वे॒ । शृ॒णोतु॑ । न॒: । सु॒ऽभगा॑ । बोध॑तु । त्मना॑ । सीव्य॑तु । अप॑: । सू॒च्या । अच्छि॑द्यमानया । ददा॑तु । वी॒रम् । श॒तऽदा॑यम् । उ॒क्थ्य᳡म् ॥५०.१॥
स्वर रहित मन्त्र
राकामहं सुहवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना। सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥
स्वर रहित पद पाठराकाम् । अहम् । सुऽहवा । सुऽस्तुती । हुवे । शृणोतु । न: । सुऽभगा । बोधतु । त्मना । सीव्यतु । अप: । सूच्या । अच्छिद्यमानया । ददातु । वीरम् । शतऽदायम् । उक्थ्यम् ॥५०.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 48; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(राकाम्) कृदाधारार्चिकलिभ्यः कः। उ० ३।४०। रा दाने-क, टाप्। अनुमती राकेति देवपत्न्याविति नैरुक्ताः। पौर्णमास्याविति याज्ञिका या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राकेति विज्ञायते-निरु० ११।२९। राका रातेर्दानकर्मणः-निरु० ११।३०। राका पदनाम-निघ० ५।५। सुखदात्रीम्। पौर्णमासीम्। पौर्णमासीसमानशोभायमानाम् (अहम्) पतिः (सुहवा) अ० ७।४७।१। शुभाह्वानेन (सुष्टुती) शोभनया स्तुत्या (हुवे) आह्वयामि (शृणोतु) (नः) अस्मान् (सुभगा) शोभनैश्वर्ययुक्ता (बोधतु) जानातु (त्मना) स्वात्मना (सीव्यतु) षिवु तन्तुसन्ताने। सन्तनोतु (अपः) कर्म (सूच्या) सिवेष्टेरू च। उ० ४।९३। इति षिवु तन्तुसन्ताने−चट्, ङीप्। स्वनामख्यातया सीवनसाधनया (अच्छिद्यमानया) छेत्तुमनर्हया। अन्यद् व्याख्यातम्-अ० ७।४७।१ ॥
इस भाष्य को एडिट करें