Loading...
अथर्ववेद > काण्ड 7 > सूक्त 48

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 48/ मन्त्र 2
    सूक्त - अथर्वा देवता - राका छन्दः - जगती सूक्तम् - राका सूक्त

    यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि। ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रापो॒षं सु॑भगे॒ ररा॑णा ॥

    स्वर सहित पद पाठ

    या: । ते॒ । रा॒के॒ । सु॒ऽम॒तय॑: । सु॒ऽपेश॑स: । याभि॑: । ददा॑सि । दा॒शुषे॑ । वसू॑नि । ताभि॑: । न॒: । अ॒द्य । सु॒ऽमना॑: । उ॒प॒ऽआग॑हि । स॒ह॒स्र॒ऽपो॒षम् । सु॒ऽभ॒गे॒ । ररा॑णा॥५०.२॥


    स्वर रहित मन्त्र

    यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि। ताभिर्नो अद्य सुमना उपागहि सहस्रापोषं सुभगे रराणा ॥

    स्वर रहित पद पाठ

    या: । ते । राके । सुऽमतय: । सुऽपेशस: । याभि: । ददासि । दाशुषे । वसूनि । ताभि: । न: । अद्य । सुऽमना: । उपऽआगहि । सहस्रऽपोषम् । सुऽभगे । रराणा॥५०.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 48; मन्त्र » 2

    टिप्पणीः - २−(याः) (ते) तव (राके) म० १। सुखप्रदे। पूर्णमासीसमशोभायमाने (सुमतयः) कल्याणबुद्ध्यः (सुपेशसः) पिश अवयवे, दीप्तौ च-असुन्। पेशः=हिरण्यम्-निघ० १।२, रूपम्-निघ० ३।७। बहुहिरण्ययुक्ताः (याभिः) (ददासि) (दाशुषे) धनस्य दात्रे पत्ये (वसूनि) धनानि (ताभिः) सुमतिभिः (अद्य) (सुमनाः) प्रसन्नचित्ता (उपागहि) समीपमागच्छ (सहस्रपोषम्) असंख्यपुष्टिम् (सुभगे) हे सौभाग्ययुक्ते (रराणा) अ० ५।२७।११। प्रयच्छन्ती ॥

    इस भाष्य को एडिट करें
    Top