अथर्ववेद - काण्ड 7/ सूक्त 5/ मन्त्र 1
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्। ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
स्वर सहित पद पाठय॒ज्ञेन॑ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वा: । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् । ते । ह॒ । नाक॑म् । म॒हि॒मान॑: । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । सा॒ध्या: । सन्ति॑ । दे॒वा: ॥५.१॥
स्वर रहित मन्त्र
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
स्वर रहित पद पाठयज्ञेन । यज्ञम् । अयजन्त । देवा: । तानि । धर्माणि । प्रथमानि । आसन् । ते । ह । नाकम् । महिमान: । सचन्त । यत्र । पूर्वे । साध्या: । सन्ति । देवा: ॥५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 5; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यज्ञेन) पूजनीयकर्मणा (यज्ञम्) पूजनीयं परमात्मानम् (अयजन्त) पूजितवन्तः (देवाः) विद्वांसः (तानि) (धर्माणि) धारणीयानि ब्रह्मचर्यादीनि कर्माणि (प्रथमानि) मुख्यानि कर्तव्यानि (आसन्) अभवन् (ते) (ह) एव (नाकम्) दुःखरहितं परमात्मानम् (महिमानः) अ० ३।१०।४। महत्त्वयुक्ताः (सचन्त) षच समवाये लङि अडभावः। अलभन्त (यत्र) नाके (पूर्वे) आद्याः। मुख्याः (साध्याः) साध्यं येषामस्तीति, साध्य-अर्शआद्यच्। साधनवन्तः। परोपकारसाधकाः साधवः (सन्ति) भवन्ति (देवाः) विजिगीषवः ॥
इस भाष्य को एडिट करें