अथर्ववेद - काण्ड 7/ सूक्त 5/ मन्त्र 2
य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स उ॑ वावृधे॒ पुनः॑। स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्मासु॒ द्रवि॑ण॒मा द॑धातु ॥
स्वर सहित पद पाठय॒ज्ञ: । ब॒भू॒व॒ । स: । आ । ब॒भू॒व॒ । स: । प्र । ज॒ज्ञे॒ । स: । ऊं॒ इति॑ । व॒वृ॒धे॒ । पुन॑: ।स: । दे॒वाना॑म् । अधि॑ऽपति: । ब॒भू॒व॒ । स: । अ॒स्मासु॑ । द्रवि॑णम् । आ । द॒धा॒तु॒ ॥५.२॥
स्वर रहित मन्त्र
यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः। स देवानामधिपतिर्बभूव सो अस्मासु द्रविणमा दधातु ॥
स्वर रहित पद पाठयज्ञ: । बभूव । स: । आ । बभूव । स: । प्र । जज्ञे । स: । ऊं इति । ववृधे । पुन: ।स: । देवानाम् । अधिऽपति: । बभूव । स: । अस्मासु । द्रविणम् । आ । दधातु ॥५.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 5; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यज्ञः) पूजनीयः संगन्तव्यः (बभूव) (सः) परमेश्वरः (आ) सर्वतः (बभूव) भू प्राप्तौ। व्याप (प्र) प्रकर्षेण (जज्ञे) ज्ञा अवबोधने कर्मणि लिट्। ज्ञातः प्रसिद्धो बभूव (उ) एव (ववृधे) वृद्धिं प्राप (पुनः) अवधारणे (सः) (देवानाम्) दिव्यानां वायुसूर्यादिलोकानाम् (अधिपतिः) अधिकं पालयिता (अस्मासु) उपासकेषु (द्रविणम्) अ० २।२९।३। प्रापणीयं बलम्-निघ० २।९। (आ) समन्तात् (दधातु) धारयतु ॥
इस भाष्य को एडिट करें