Loading...
अथर्ववेद > काण्ड 7 > सूक्त 52

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 52/ मन्त्र 2
    सूक्त - अथर्वा देवता - सांमनस्यम्, अश्विनौ छन्दः - जगती सूक्तम् - सांमनस्य सूक्त

    सं जा॑नामहै॒ मन॑सा॒ सं चि॑कि॒त्वा मा यु॑ष्महि॒ मन॑सा॒ दैव्ये॑न। मा घोषा॒ उत्स्थु॑र्बहु॒ले वि॒निर्ह॑ते॒ मेषुः॑ पप्त॒दिन्द्र॒स्याह॒न्याग॑ते ॥

    स्वर सहित पद पाठ

    सम् । जा॒ना॒म॒है॒ । मन॑सा । सम् । चि॒कि॒त्वा । मा । यु॒ष्म॒हि॒ । मन॑सा । दैव्ये॑न । मा । घोषा॑: । उत् । स्थु॒: । ब॒हु॒ले । वि॒ऽनिर्ह॑ते । मा । इषु॑: । प॒प्त॒त् । इन्द्र॑स्य । अह॑नि । आऽग॑ते ॥५४.२॥


    स्वर रहित मन्त्र

    सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन। मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते ॥

    स्वर रहित पद पाठ

    सम् । जानामहै । मनसा । सम् । चिकित्वा । मा । युष्महि । मनसा । दैव्येन । मा । घोषा: । उत् । स्थु: । बहुले । विऽनिर्हते । मा । इषु: । पप्तत् । इन्द्रस्य । अहनि । आऽगते ॥५४.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 52; मन्त्र » 2

    टिप्पणीः - २−(सम् जानामहै) समानज्ञाना भवाम (मनसा) आत्मबलेन (सम्) संजानामहै (चिकित्वा) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। कित ज्ञाने-क्वनिप्। छान्दसं द्विर्वचनम्, तृतीयाया डादेशः। चिकित्वना। ज्ञानेन (मा युष्महि) यु मिश्रणामिश्रणयोः, माङि लुङि सिचि रूपम्। मा वियुक्ता भूम (मनसा) विज्ञानेन (दैव्येन) देवहितेन (घोषाः) कोलाहलाः (मा उत् स्थुः) माङि लुङि रूपम्। उत्थिता मा भूवन् (बहुले) प्रचुरे (विनिर्हते) विविधं वधनिमित्ते युद्धे सति (इषुः) बाणः (मा पप्तत्) पत-लुङ्। मा पततु (इन्द्रस्य) ऐश्वर्यवतो राज्ञः (अहनि) दिने। न्यायदिने (आगते) प्राप्ते ॥

    इस भाष्य को एडिट करें
    Top