Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 55/ मन्त्र 1
सूक्त - भृगुः
देवता - इन्द्रः
छन्दः - विराट्परोष्णिक्
सूक्तम् - मार्गस्वस्त्य अयन सूक्त
ये ते॒ पन्था॑नोऽव दि॒वो येभि॒र्विश्व॒मैर॑यः। तेभिः॑ सुम्न॒या धे॑हि नो वसो ॥
स्वर सहित पद पाठये । ते॒ । पन्था॑न: । अव॑ । दि॒व: । येभि॑: । विश्व॑म् । ऐर॑य: । तेभि॑: । सु॒म्न॒ऽया । आ । धे॒हि॒ । न॒: । व॒सो॒ इति॑ ॥५७.२॥
स्वर रहित मन्त्र
ये ते पन्थानोऽव दिवो येभिर्विश्वमैरयः। तेभिः सुम्नया धेहि नो वसो ॥
स्वर रहित पद पाठये । ते । पन्थान: । अव । दिव: । येभि: । विश्वम् । ऐरय: । तेभि: । सुम्नऽया । आ । धेहि । न: । वसो इति ॥५७.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 55; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(ये) (ते) तव (पन्थानः) वेदमार्गाः (अव) निश्चयेन (दिवः) प्रकाशस्य (येभिः) यैः (विश्वम्) जगत् (ऐरयः) ईर गतौ-लङ्। प्रेरितवानसि (तेभिः) तैः पथिभिः (सुम्नया) आतश्चोपसर्गे। पा० ३।१।१३६। इति सु+म्ना अभ्यासे-क। विभक्तेर्याजादेशः। सुम्नं सुखम्-निघ० ३।६। सुम्नेन सुखेन (आ) सम्यक् (धेहि) पोषय (नः) अस्मान् (वसो) हे श्रेष्ठपरमात्मन् ॥
इस भाष्य को एडिट करें