Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 57/ मन्त्र 2
स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवृतन्नृ॒तानि॑। उ॒भे इद॑स्यो॒भे अ॑स्य राजत उ॒भे य॑तेते उ॒भे अ॑स्य पुष्यतः ॥
स्वर सहित पद पाठस॒प्त । क्ष॒र॒न्ति॒ । शिश॑वे । म॒रुत्व॑ते । पि॒त्रे । पु॒त्रास॑: । अपि॑ । अ॒वी॒वृ॒त॒न् । ऋ॒तानि॑ । उ॒भे इति॑ । इत् । अ॒स्य॒ । उ॒भे इति॑ । अ॒स्य॒ । रा॒ज॒त॒: । उ॒भे इति॑ । य॒ते॒ते॒ इति॑ । उ॒भे इति॑ । अ॒स्य॒ । पु॒ष्य॒त॒: ॥५९.२॥
स्वर रहित मन्त्र
सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्नृतानि। उभे इदस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः ॥
स्वर रहित पद पाठसप्त । क्षरन्ति । शिशवे । मरुत्वते । पित्रे । पुत्रास: । अपि । अवीवृतन् । ऋतानि । उभे इति । इत् । अस्य । उभे इति । अस्य । राजत: । उभे इति । यतेते इति । उभे इति । अस्य । पुष्यत: ॥५९.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 57; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(सप्त) सप्त ऋषयः-अ० ४।११।९। कः सप्त खानि विततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्। अ० १०।२।६। शीर्षण्यानि सप्तच्छिद्राणि (क्षरन्ति) सुखं वर्षन्ति (शिशवे) शः कित् सन्वच। उ० १।२०। शो तनूकरणे-उ। शिशुः शंसनीयो भवति शिशीतेर्वा स्याद् दानकर्मणः-निरु० १०।३९। दुःखस्य अल्पीकर्त्रे नाशयित्रे बालकाय दात्रे विदुषे वा (मरुत्वते) मरुत्=हिरण्यम्-निघ० १।२। सुवर्णवते (पित्रे) पितृतुल्यमाननीयाय विदुषे (पुत्रासः) पुत्रवदुपकारिणः पुरुषाः (अपि) च (अवीवृतन्) वर्ततेर्ण्यन्ताल्लुङि चङि रूपम्। प्रवर्तितवन्तः (ऋतानि) सत्यधर्माणि (उभे) उभ पूरणे-क। उभौ समुब्धौ भवतः-निरु० ४।४। उभेनिपासि जन्मनी-यजु० ८।३। द्वे वर्तमानभविष्यती जन्मनी अवस्थे वा (इत्) एव (अस्य) शिशोर्विदुषः पुरुषस्य (उभे) (अस्य) (राजतः) राजति=ईष्टे-निघ० २।२१। ऐश्वर्ययुक्ते भवतः (यतेते) यती प्रयत्ने। प्रयत्नं कुरुतः (पुष्यतः) पोषणं कुरुतः ॥
इस भाष्य को एडिट करें