Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 64/ मन्त्र 2
सूक्त - यमः
देवता - आपः, अग्निः
छन्दः - न्युङ्कुसारिणी बृहती
सूक्तम् - पापमोचन सूक्त
इ॒दं यत्कृ॒ष्णः श॒कुनि॑र॒वामृ॑क्षन्निरृते ते॒ मुखे॑न। अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्र मु॑ञ्चतु ॥
स्वर सहित पद पाठइ॒दम् । यत् । कृ॒ष्ण: । श॒कुनि॑: । अ॒व॒ऽअमृ॑क्षत् । नि॒:ऽऋ॒ते॒ । ते॒ । मुखे॑न । अ॒ग्नि: । मा॒ । तस्मा॑त् । एन॑स: । गार्ह॑ऽपत्य: । प्र । मु॒ञ्च॒तु॒ ॥६६.२॥
स्वर रहित मन्त्र
इदं यत्कृष्णः शकुनिरवामृक्षन्निरृते ते मुखेन। अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु ॥
स्वर रहित पद पाठइदम् । यत् । कृष्ण: । शकुनि: । अवऽअमृक्षत् । नि:ऽऋते । ते । मुखेन । अग्नि: । मा । तस्मात् । एनस: । गार्हऽपत्य: । प्र । मुञ्चतु ॥६६.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 64; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(इदम्) (यत्) कष्टम् (कृष्णः) म० १। काक इव निन्दित उपद्रवः (शकुनिः) चिल्ल इव निन्दितः (अवामृक्षत्) मृक्ष संघाते-लङ्। राशीकृतवान् (निर्ऋते) हे कृच्छ्रापत्ते (ते) तव (मुखेन) (अग्निः) व्यापकः पराक्रमः (मा) माम् (तस्मात्) (एनसः) कष्टात् (गार्हपत्यः) अ० ५।३१।५। गृहपतिना आत्मना संयुक्तः (प्र) प्रकर्षेण (मुञ्चतु) मोचयतु ॥
इस भाष्य को एडिट करें