Loading...
अथर्ववेद > काण्ड 7 > सूक्त 75

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 75/ मन्त्र 2
    सूक्त - उपरिबभ्रवः देवता - अघ्न्या छन्दः - त्र्यवसाना भुरिक्पथ्यापङ्क्तिः सूक्तम् - अघ्न्या सूक्त

    प॑द॒ज्ञा स्थ॒ रम॑तयः॒ संहि॑ता वि॒श्वना॑म्नीः। उप॑ मा देवीर्दे॒वेभि॒रेत॑। इ॒मं गो॒ष्ठमि॒दं सदो॑ घृ॒तेना॒स्मान्त्समु॑क्षत ॥

    स्वर सहित पद पाठ

    प॒द॒ऽज्ञा: । स्थ॒ । रम॑तय: । सम्ऽहि॑ता: । वि॒श्वऽना॑म्नी: । उप॑ । मा॒ । दे॒वी॒: । दे॒वेभि॑: । आ । इ॒त॒ । इ॒मम् । गो॒ऽस्थम् । इ॒दम् । सद॑: । घृ॒तेन॑ । अ॒स्मान् । सम् । उ॒क्ष॒त॒ ॥७९.२॥


    स्वर रहित मन्त्र

    पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः। उप मा देवीर्देवेभिरेत। इमं गोष्ठमिदं सदो घृतेनास्मान्त्समुक्षत ॥

    स्वर रहित पद पाठ

    पदऽज्ञा: । स्थ । रमतय: । सम्ऽहिता: । विश्वऽनाम्नी: । उप । मा । देवी: । देवेभि: । आ । इत । इमम् । गोऽस्थम् । इदम् । सद: । घृतेन । अस्मान् । सम् । उक्षत ॥७९.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 75; मन्त्र » 2

    टिप्पणीः - २−(पदज्ञाः) पदचिह्नस्य स्थानस्य वा ज्ञात्र्यः (स्थ) भवथ (रमतयः) अ० ६।७३।२। रमयित्र्यः (संहिताः) सम्+धा धारणी वा हि गतौ-क्त। सम्यक् हितं प्रतिपाद्यं यासां ताः परस्परसंगता वा (विश्वनाम्नीः) वा च्छन्दसि। पा० ६।१।१०६। इति जसः पूर्वसवर्णदीर्घः। व्याप्तनामधेयाः (उप) समीपे (मा) माम् (देवीः) देव्यः। दिव्यगुणाः (देवेभिः) उत्तमगुणैः (आ इत) आगच्छत (इमम्) (गोष्ठम्) वाचस्तिष्ठन्त्यत्र। वाचनालयम् (इदम्) (सदः) सदनम् (घृतेन) प्रकाशेन (अस्मान्) (सम्) सम्यक् (उक्षत) उक्षितः, महन्नाम-निघ० ३।३। उक्षण उक्षतेर्वृद्धिकर्मणः-निरु० १२।९। वर्धयत ॥

    इस भाष्य को एडिट करें
    Top