अथर्ववेद - काण्ड 7/ सूक्त 76/ मन्त्र 1
सूक्त - अथर्वा
देवता - अपचिद् भैषज्य्म्
छन्दः - विराडनुष्टुप्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
आ सु॒स्रसः॑ सु॒स्रसो॒ अस॑तीभ्यो॒ अस॑त्तराः। सेहो॑रर॒सत॑रा लव॒णाद्विक्ले॑दीयसीः ॥
स्वर सहित पद पाठआ । सु॒ऽस्रस॑: । सु॒ऽस्रस॑: । अस॑तीभ्य: । अस॑त्ऽतरा: । सेहो॑: । अ॒र॒सऽत॑रा: । ल॒व॒णात् । विऽक्ले॑दीयसी: ॥८०.१॥
स्वर रहित मन्त्र
आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः। सेहोररसतरा लवणाद्विक्लेदीयसीः ॥
स्वर रहित पद पाठआ । सुऽस्रस: । सुऽस्रस: । असतीभ्य: । असत्ऽतरा: । सेहो: । अरसऽतरा: । लवणात् । विऽक्लेदीयसी: ॥८०.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 76; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(आ) समन्तात् (सुस्रसः) सु+स्रसु पतने-क्विप्। अनिदितां हल उपधायाः ङ्किति। पा० ६।४।२४। इति नलोपः। अतिस्रवणशीलात्पदार्थात् (सुस्रसः) अत्यर्थं स्रवणशीलाः (असतीभ्यः) दुष्टाभ्यः (असत्तराः) अधिक−दुष्टाः (सेहोः) भृमृशीङ्०। उ० १।७। षिञ् बन्धने-उ, हुगागमः। सेहुनामनिःसारपदार्थविशेषात् (अरसतराः) अधिकशुष्काः (लवणात्) नन्दिग्रहिपचादि०। पा० ३।१।१३४। लूञ् छेदने-ल्यु। सैन्धवादिक्षाररसभेदात् (विक्लेदीयसीः) क्लिदू आर्द्रीभावे-घञ्, विविधः क्लेदो यासां ता विक्लेदाः। तत ईयसुन्, ङीप्। शसि रूपम्। अधिकस्रवणशीलाः ॥
इस भाष्य को एडिट करें