Loading...
अथर्ववेद > काण्ड 7 > सूक्त 76

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 76/ मन्त्र 3
    सूक्त - अथर्वा देवता - अपचिद् भैषज्यम् छन्दः - अनुष्टुप् सूक्तम् - गण्डमालाचिकित्सा सूक्त

    यः कीक॑साः प्रशृ॒णाति॑ तली॒द्यमव॒तिष्ठ॑ति। निर्हा॒स्तं सर्वं॑ जा॒यान्यं यः कश्च॑ क॒कुदि॑ श्रि॒तः ॥

    स्वर सहित पद पाठ

    य: । कीक॑सा: । प्र॒ऽशृ॒णाति॑ । त॒ली॒द्य᳡म् । अ॒व॒ऽतिष्ठ॑ति । नि: । हा॒: । तम् । सर्व॑म् । जा॒यान्य॑म् । य: । क: । च॒ । क॒कुदि॑ । श्रि॒त: ॥८०.३॥


    स्वर रहित मन्त्र

    यः कीकसाः प्रशृणाति तलीद्यमवतिष्ठति। निर्हास्तं सर्वं जायान्यं यः कश्च ककुदि श्रितः ॥

    स्वर रहित पद पाठ

    य: । कीकसा: । प्रऽशृणाति । तलीद्यम् । अवऽतिष्ठति । नि: । हा: । तम् । सर्वम् । जायान्यम् । य: । क: । च । ककुदि । श्रित: ॥८०.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 76; मन्त्र » 3

    टिप्पणीः - ३−(यः) जायान्यः (कीकसाः) अ० २।३३।२। जत्रुवक्षोगतास्थीनि (प्रशृणाति) प्रच्छिनत्ति (तलीद्यम्) हृसृरुहि०। उ० १।९७। तल प्रतिष्ठायाम्-इति प्रत्ययः, दीर्घश्चान्दसः। भवे छन्दसि। पा० ४।४।११०। यत्। तलिति तले करतलपदतले भवं चर्म (अवतिष्ठति) आश्रयति (निः) निरन्तरम् (हाः) अ० ६।१०३।२। हृञ् नाशने-लुङ्। अहाः। अहार्षीत्। नाशितवान् स वैद्य इति शेषः (तम्) (सर्वम्) (जायान्यम्) वदेरान्यः। उ० ३।१०४। जै क्षये-आन्य। क्षयम्। राजरोगम् (यः) (कः) (च) (ककुदि) अ० ३।४।२। उत्तमाङ्गे। शिरसि (श्रितः) अवस्थितः ॥

    इस भाष्य को एडिट करें
    Top