अथर्ववेद - काण्ड 7/ सूक्त 76/ मन्त्र 5
सूक्त - अथर्वा
देवता - जायान्यः, इन्द्रः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
वि॒द्म वै ते॑ जायान्य॒ जानं॒ यतो॑ जायान्य॒ जाय॑से। क॒थं ह॒ तत्र॒ त्वं ह॑नो॒ यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे ॥
स्वर सहित पद पाठवि॒द्म । वै । ते॒ । जा॒या॒न्य॒ । जान॑म् । यत॑: । जा॒या॒न्य॒ । जाय॑से । क॒थम् । ह॒ । तत्र॑ । त्वम् । ह॒न॒: । यस्य॑ । कृ॒ण्म: । ह॒वि: । गृ॒हे ॥८१.१॥
स्वर रहित मन्त्र
विद्म वै ते जायान्य जानं यतो जायान्य जायसे। कथं ह तत्र त्वं हनो यस्य कृण्मो हविर्गृहे ॥
स्वर रहित पद पाठविद्म । वै । ते । जायान्य । जानम् । यत: । जायान्य । जायसे । कथम् । ह । तत्र । त्वम् । हन: । यस्य । कृण्म: । हवि: । गृहे ॥८१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 76; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(विद्म) जानीमः (वै) अवश्यम् (ते) तव (जायान्य) म० ३। हे क्षयरोग (जानम्) जन-घञ्। जन्मस्थानम् (यतः) यस्मात् (जायान्य) (जायसे) उत्पद्यसे (कथम्) केन प्रकारेण (ह) अवश्यम् (तत्र) (त्वम्) (हनः) हन्तेर्लेटि अडागमः। हन्याः पुरुषम् (यस्य) पुरुषस्य (कृण्मः) कुर्मः (हविः) ग्राह्यं पथ्यं कर्म (गृहे) ॥
इस भाष्य को एडिट करें